________________
३१२
महावृत्तिसहितम् । __ भावे धो भवति । भाव इति क्रियासामान्य चर्थः तद्यद्यपि पूर्वापरिभूतमपरिनिष्पन्नमलिङ्गसख्यं प्रकृत्यैवोच्यते तथापि यस्त्वस्यासिडताधर्मः स लिङ्गसं. ख्यावानिति तत्र घनादयः । पाकः । त्यागः ।रागः ॥
___ अकर्तरि ॥ १८ ॥ कतुरन्पस्मिन् कारके घञ् भवति । नज्युक्तमिव युक्तं वा यत्कार्य संप्रतीयते तुल्याधिकरणे ऽन्यस्मिन् लोके ऽप्यर्थगतिस्तथा प्रास्यन्ति तं प्रासः। प्रसीव्यति तं प्रसेवः । आहरन्ति तस्मादाहारः । संज्ञायामसंज्ञायामपि दृश्यते। को भवता दायो दत्तः । को भवता लाभो लाब्धः । कर्तव्यः कटः। कृतः कटः इत्येवमादिषु अनभिधानात् भवति ।
परिमाणाख्यायां सर्वेभ्यः ॥ १८ ॥
श्राख्याग्रहणात्परिमाण मिह संख्यादिके गृह्यते । परिमाणस्याख्यायां गम्यमानायां सर्वेभ्यो घञ् भवति । एकस्तण्डुलनिचायः। एकस्तण्डुलावचायः । द्वो केदार लावी । वीजकारी ग्रहहगमोजिति अचि प्राप्ते इदम् । परिमाणाख्यायामिति किम् । निश्चयः । सर्वग्रहणं वाधकपाधनार्थम् । एकस्तृणविघासः।अन्यथा पुरस्तादपवादो ऽयमिति अनन्तरमेवाचं वाध्येत न व्यवहितं ना णश्चेति णम् । घनि घस्लभावः सिडः । इहाकर्तरीत्येवाभिसंवध्यते । स्त्रीलिङ्गे भावे घञ् भवेत् । एका तिलोच्छितिः। श्रुती । सर्वग्रहणं बाधकबाधनार्थमुक्तक्तरवाध्येत ॥
।
MADIENTENTamastampscmanane