________________
wwam
emawwam
HWAROORDARAMANumeroomsadhiwasir
man
DINES
।
जैनेन्द्रव्याकरणम् । करिष्यामीति व्रजति। हरिष्यामीति व्रजति । लद्ग्रहणं किम् । त्यान्तरत्त्वं मा विज्ञायि ।
अनद्यतने लुट् ॥ १४ ॥ वस्य॑तीति बर्तते । वत्स्यत्यनद्यतने ध्वथै वर्तमानाडोलट् भवति । श्वः कर्ता । श्वोऽध्येता। अनद्यतन इति वसनिर्देशादद्य श्बो भक्ष्यामहे इत्यत्र न भवति। विभाषानुवर्तनात् परिदेवने लूटविषयेपि लुट भवति । इयन्तु कदा गन्ता एवं निद्धती पादौ । अयं तु कदाध्येता एवमनभियुक्तः॥
पदरुजविशस्टशो घञ् ॥ १५ ॥ पद रुज विश स्पृश इत्येतेभ्यो घञ् भवति । पद्य. तेऽसौ पादः । एवुतचोरयमपवादो न पचायचः सुम्मिडतं पदमिति पदनिर्देशात् । रुजत्यसौ रोगः । विशत्यसौ वेशः । इगुलक्षणस्या पवादः। स्पृश उपतापेऽभिधानम् । स्पृशतीति स्पी रोगः । उपतापादत्यत्र स्पष्टा स्पर्शकः॥
स स्थिरे ॥ १६ ॥ सरतेः स्थिरे कर्तरि घञ् भवति । कालान्तरं सरतीति सारः । मधुकसारः। विभाषानुपर्तनात् स्थिरव्याधिमत्स्यबलेष्वभिधानम् । अतिसारो व्याधिः । विसारो सत्स्यः। सारो बलम् । एतेविति किम् । सर्ता। सारकः॥
भावे ॥ १७ ॥
-DIORampus
reone