________________
३१० महात्तिसहितम् ।
कर्मणि वाचि तदायां च क्रियायामण भवति । पूर्वेण एप्राप्तः। वाअसमविधिश्च नास्तीत्युक्तम् एन् स्यात् तेनायमारम्भः । कुम्भकारो ब्रजति । काण्डलावो व्रजति । वाचि ग्रहणानुत्तेः यथाविहितमण भवति इति कर्मण्येव वाचि भविष्यति । कर्मग्रहणं किमर्थम् अपवादविषयेऽपि यथा स्यादित्येवमर्थः । गोदायो ब्रजति। तुषपायी व्रजति । क्रियायां तदर्थायामनुवर्तते । चकार: किमर्थः केवले कर्मणि केवलायां च क्रियायां वाचि मा भूत् । प्रत्येकमीपा निर्देशात् बाक्सः ।
लुट् ॥ ११ ॥ लुट भवति क्रियायां तदर्थायां वाचि । करिष्यामीति ब्रजति । उदाहरणे इति शब्दः हेतुहेतुमद्भावद्योतनार्थः।
शेषे ॥ १२ ॥ उक्तादन्यः शेषः शुई वत्स्यत् कालमानं शेषे वय॑ति लट् भवति । करिष्यति । हरिष्यति ॥
विभाषा लटः सत् ॥ १३ ॥ वय॑ति लट् तस्य स्थाने सत्संज्ञौ शतृशाना विभाषया भवतः। पक्ष्यन्तं पश्य । पक्ष्यमानं पश्य । पक्ष्यता कृतम् हेपक्ष्यन् । हे पक्ष्यमाण । अर्जयिष्यति वसति । अध्येष्यमाण प्रास्ते । देवदतः पश्यति पक्ष्यति वा पक्ष्यमाणः पक्ष्यते वा। व्यवस्थितविभाषेयम् । तेन इवादिभियोंगे सम्बोधने लक्षणहेताः क्रियायां बत्यत्र नित्यो विधि। वातैकार्थत्वे विकल्पः। इतिशब्दयोगे तु न भवति ।