________________
महावृत्तिसहितम् । लट् भवति । यो भवन्यो भिक्षां ददाति दाता वा स स्वर्गलोकं गच्छति गमिष्यति गन्ता वा । दानादातुस्वर्गसिधिं ब्रुवाणे दातारमेवमुत्साहयति । ननु चात्र उभयत्रापि लिपसाया गम्यमानत्वात् किंवत्ते लिप्सायामित्येव लविकल्पसिद्धय॑र्थोऽयमारम्भः । न व्यर्थः किंवृत्तार्थत्वादेतदारम्भस्य । पूर्वेण हि किंवत्त वाचि लविकल्पो विहितः ।
लोडर्थलक्षणे ॥६॥ वस्य॑तीति वेति च वर्तते । लोडर्थः प्रैषादिःस लक्ष्यते अनेन लोडर्थलक्षणं तस्मिन् लोडर्थलक्षणे ध्वर्थे वर्तमानात् धर्वस्यति वा लट् भवति उपाध्यायश्चेदाः गमिष्यति । उपाध्यायश्चेदागन्ता । अथ त्वं तर्कमधीष्व अथ गणितमधीष्व । अत्रोपाध्यायागमनेन भैषो लक्ष्यते ।
लिङ् चोर्द्धमौर्तिके ॥ ७ ॥ वेति वर्तते । लोडर्थलक्षण इति । ऊर्ध्व मुहूर्ताद्भव काल अर्ध्वमौहूर्तिकः निपातनात्सविधिरुत्तरपदस्यैप ऊर्ध्वमौहूतिके वय॑ति काले लोडथलक्षणे वर्तमानाडोलिड् भवति लड् वा । अर्ध्व मुहूर्तादुपाध्यायश्चेदागच्छेत् उपाध्यायश्चेदागच्छति उपाध्यायश्चेदागमिष्यति उपाध्यायश्चेदागन्ता अथ त्वं तर्कमधीष्व अथ त्वं गणितमधीष्व ।
वुरातुमा क्रियायां तदर्थायाम् ॥ ८ ॥ वय॑तीत्येव वर्तते । यस्माडोः त्योत्पत्तिः प्रार्थ्यते तद्वाच्यक्रिया तच्छब्देनाभिप्रेत्ता सा क्रिया अर्थः ।
-
name