________________
MARuamanna
जैनेन्द्रव्याकरणम् । अन्तरः प्रत्यासन्नः। स्थाने प्राप्यमाणानामन्तरतम एवादेशा भवति । आन्तर्य च शब्दस्य स्थानार्थगुणप्रमाणतः । स्थानतः । लोकाग्रम् । स्वे ऽकोदीरिति कन्य एवाकारो दोभवति । अर्थतः । वतण्डस्यापत्यं स्त्री वतडादिति यञ् तस्य स्त्रियामुवित्युप । वतण्डी चासौ युव तिश्च वातण्ड्ययुवतिः।पोटायुवतोस्तोकादिसूत्रेण यसंज्ञः षसः स्त्र्युक्तपुंसकादिना पुंवद्भावः प्राप्तो जातिश्चेति प्रतिपिडः पुंवद्यजातीयदेशोय इत्यर्थतो वात्तण्डाशब्दो भवति । गुणतः। पाकः। त्यागः । अल्पप्राणस्य तादृश एव शेषवतस्तादृश एव ।प्रमाणतः । अमुष्मै। अमूभ्याम् । प्रस्य प्रः । दोसंज्ञकस्य दी। स्थान इति वर्तमाने पुनः स्थानग्रणं यत्रानेकमान्तयं सम्भवति तत्र स्थानत एव भवति। चेता। स्तोता। प्रमाणातो ऽकारः प्राप्तः स्थानतो ऽन्तर तमावेकारौकारौ च । तत्र पुनः स्थानग्रहणात्स्थानकृतमेवान्तर्य बलीय इत्येकारौकारी भवतः। तमग्रहणं किम् । वाग्घसति हकारस्य पूर्वस्वत्वे स्वोष्मणस्सोष्मा द्वितीयः प्राप्तो नादवतानादवां स्तृतोयः । तमग्रहणाद्यः सेोष्मा नादवांश्च चतुथा भवति ॥
रन्तो ऽ उः॥ ४ ॥ स्थाने ऽण प्रसज्यमान एव रन्तो भवति । लक्षणान्तरण विधीयमान एवाण विधानबलेन तत्साहायकं प्रतिपद्य मानेन रन्तो भाव्यत इत्यर्थः । अकर्तरीति निर्देशात्सर्वा देशो न भवति। की। किरति । गिरति। द्वैमातुरः। भरतः शात्तमातुरः। योमात्त्रोरपत्यं तस्यापत्यमित्याण परता मातुरुत्संख्यासम्भद्रादेरित्युकारादेशः । उरिति किम् । गेयम् । पन्थाः।अणिति किम् । मातापितरौ । सौधातकिः।
womaamananews