________________
o
२६४
महावृत्तिसहितम् । इति आद्यर्थे श्राङभिविधा शमादिभ्य आ मदेधिनिण् भवति । अष्टौ च शमादयः । शमी। तमी । दमी। श्रमी । भ्रमी ।क्षमी । लमी । प्रमादी । उन्मादी । उडोत इत्यैप्प्राप्तः न सेटनामावसिकमिचम इति प्रतिषिद्धः। मदेस्तु भवति । घकारः उत्तरत्र कुत्वार्थः । इकारः उच्चारणार्थ: । अन्ये उकारमितं कुर्वन्ति तेषामिह शमिनितरा इति उगितश्चेति वा प्रादेशः प्रामाति । आमदेरिति किम् यसिता॥ दुहानुरुधदुषद्विषद्रुहयुजत्यजरजभुजाभ्या
हनः ॥ ११८ ॥ दुहादिभ्यो घिनिण भवति शीलादिष । दोही। अनुरोधी । दोषी । द्वेषी। द्रोही। योगी । त्यागी। रज इति सूत्रे निपातनानखम् । रागी । भोगी। अभ्याघाती। अकर्मकाणामिति वक्तव्यमिह मा भूत् । गां दोग्धा । शत्रनभ्याहन्ता ॥
परेः सूदेविक्षिपरटवददहमुहः ॥ ११६ ॥
परिपूर्वेभ्यः सुप्रभृतिभ्यो धुभ्यः घिनिराभवति । परिसारी। देव देवन इत्यस्य परिदेवी । क्षिपेरविशेषेण ग्रहणम् । परिक्षेपी। परिपाटी । परिवादी। परिदाही । परिमाही॥
वो कषविचलसकत्यस्तम्भः ॥ १२० ॥
विपूर्वेभ्यः कषादिभ्यो धुभ्यः घिनिण भवति । विकाषो । विवेकी । विलासी । विकत्थी । विनम्भी॥