________________
जैनेन्द्रव्याकरणम् |
२६१
प्रतिपत्तेर्द्वयेारुपादानं द्वन्द्वेषु अल्पाच्तरमिति पूर्वनिपात
व्यभिचारार्थे च ॥
तौ सत् ॥ १०५ ॥
1
तौ शतृशाना सत्संज्ञौ भवतः । शतृशानयेाः प्रकृतत्वात् ताग्रहणं शतृशानरूपपरिग्रहार्थम् । तेन लुङादेशयोरपि सत्संज्ञा सिडा । देवदत्तस्य कुर्वत् करिष्यत् । उद्ग्रहणेत्यादिना तासप्रतिषेधः ।
पूड्यजेाः शानः ॥ १०६ ॥
सम्प्रतीति वर्तते । पूङ् यज् इत्येताभ्यां शानस्त्या भवति अलादेशोऽयं कर्त्तर्येव भवति मभाग्भ्योऽपि धुभ्यो विधास्यते । सोमं पवमानः । यजमानः । न शितादिसूत्रे शतृ इत्यतः प्रभृति आतृनो नकारात् तृन्निति प्रत्याहार उक्तः । तेन कर्म्मणि ताप्रतिषेधः ॥
वयः शक्तिशीले ॥ १०७ ॥
वयस् शक्ति शील इत्येतेषु गम्यमानेषु धोः थानो भवति । शरीरावस्था वयः । कतीह शिखण्डं वहमानाः । कतीह कवचं पर्य्यस्यमानाः । शक्तिः सामर्थ्यम् । कतीह भटं निघ्नानाः । कतीह भुञ्जानाः । शोलं गुणान्तरद्वेषः । कतीह मण्ड्यमानाः । कतीह मुण्डयमानाः ॥
धारीङः शत्रकृक्रिणि ॥ १०८ ॥
अकृच्छ्रमनायासेो य अस्ति सोऽकुछी । धारि इङ इत्येताभ्यां शत्रुत्यो भवति अकृच्छ्रिणि कर्त्तरि । धारयन्