________________
meas
२६०
महावृत्तिसहितम् ।। न कर्तव्यम् । पुनरवैकार्थ इति द्वितीयो योगः। अत्रापि नवेत्यधिकारात् कचिद्धा तेन सामानाधिकरण्येपि शतशाना भवतः । सन् घटः । अस्ति घटः। विद्यते घटः । जक्षतु जुहोति बा देवदत्तः । अधोयानो मुनिः। अधीते मुनिः। व्यवस्थितविभाषाबलात् माड्याक्रोशे लुङपि । मा पचत् । मा पचमानः । मा पाक्षोत् ॥
संबोधने ॥ १०३ ॥ सम्बोधनमभिमुखीकरणम् । तविषये खटः शतशानौ भवतः वैकार्थत्वे नित्यार्थमिदम् । हे पचमान । उभयो|त्यं सम्बोधनमिति वाविभत्तयपि भवति ॥
लक्षणहेत्वोः क्रियायाः॥ १०४ ॥
लक्षणं ज्ञापकं चिन्हं हेतुर्जनकः लक्षणं च । या क्रिया क्रियाया हेतुश्च या क्रिया तत्र वर्तमानाडोः परस्य लटः शतृशाना भवतः । शयाना भुञ्जते यवनाः । तिष्टन्तोऽनुशासति गणकाः। व्यभिचार्यपि लक्षणं दृश्यते यथा यत्रासो काकस्तद्देवदत्तगृहमिति । अन्यथेहैव स्यात् शयाना वर्डते दूर्वा । आसीनं वर्द्धते विसम् । हेतौ। अधीयान प्रास्ते । अर्जयन् वसति । नवेत्यत्र वृतेरिह न भवति । वर्षतोति धावति । हन्तोति पलायते । लक्षणहेत्वोरिति किम् । पचति । जल्पति । क्रियाया इति किम् । यो वेपते सोऽश्वत्थः । यदुप्लवते तल्लघु । द्रव्यस्य गुणस्य च लक्षणे न भवतः । इह शास्त्र अन्यत्र हेतुग्रहणे कारणग्रहणमिति | लक्षणग्रहणे च ज्ञापकग्रहणमिति अन्यतरनिर्देशेनोभय
-