________________
जैनेन्द्रव्याकरणम् । २८६ क्रियाया आपरिसमाप्तेर्वर्तमानत्वमुतरत्रासमाप्तिः समाप्तिश्च क्रियाया विवक्षिता॥
सम्प्रति ॥ १०१ ॥ ध्वर्थे लद् भवति श्रारम्भात्प्रभृत्या उपरमादर्तमानः कालः सम्प्रति इत्युच्यते । उक्तं च श्रारम्भाय प्रसूता यस्मिन् काले भवन्ति कतारः कार्यस्यानिष्ठातस्तन्मध्यं कालमिच्छन्ति । तरति । नयति । याति ॥
तस्य शतृशानाववैकार्थे ॥ १०२ ॥ तस्य सम्प्रतिकाले विहितस्य लटः स्थाने शतृ शान इत्येतावादेशा भवतः न चेदान्तेन एकायं भवति। पचन्तं पश्य । पचता कृतम् । पचमानेन कृतम् । तस्य ग्रहणं किम् । असम्प्रतिकाले विहितस्य लटः स्थाने मा भूत् । उष्यते इह पुरा छात्रैः । अधीयते स नटैः । अवैकार्थ इति किम् । पचति देवदत्तः। अत्र तस्य शतृशानाविति योग विभागः कर्तव्यः । न वा साकाङ्क्ष इत्यता मण्डूकप्लत्या नवाग्रहणं चाभिसम्बन्धनीयम् । ततो नेत्यनेन इतिशब्दयोगे प्रतिषेध एव भवति। वर्षतीति धावति । हन्तीति पलायते। वेति व्यवस्थितविभाषा। तेन इतिवादिभिर्योगेभिन्नाधिकरणेषु च हृत्सुनित्यो विधिः। कुर्वती भक्तिः। कुर्वद्भक्तिः। कौर्वतः । पाचमानः । भक्तिशब्दः प्रियादी पठ्यते तेन पुंवद्यजातीयदेशीय इति पुंवद्भावः । समानाधिकरणेषु हृत्सु विकल्पः । कुर्वत्तरः। कुर्वद्रपः । कुर्वाणरूपः । करोतितराम् । करोतिरुपम् । तस्मात् घुत्ययोरुपसंख्या
-