________________
महावृत्तिसहितम्
सुवन्ते वाचि धाराभीक्ष्णे गम्ये प्रायेो णिन् भवति । शीलं गुणान्तरे द्वेषः । तन्तन्मुहुर्मुहुः सेवनमा भीक्ष्णम् । कषायपायि गांधारयः । सौवीरपायिणेो इपिलाः । तक्रपाथि अन्ध्राः । चोरपायिए उसीनराः । मृदन्तं तुम्बिभक्ताविति । एत्वं प्रायोग्रहणादिह न भवति । कुल्मा पखादाश्चालाः ॥
२७८
मनः ॥ ७० ॥
मन्यतेः सुपि वाचि णिन् भवति । अशीलाद्यर्थमेतत् । शोभनं मन्यते परं शोभनमानी दर्शनीयमानी । मन इति स्यविकरणस्य ग्रहणं व्याख्यानात् । उत्तरत्र खशि विशेषो भविष्यति ॥
खश्चात्मनः ॥ ११ ॥
आत्मनो यत्सुवन्तं तस्मिन् वाचि मन्यतेः खश भवति णिश्च । शोभनमात्मानं मन्यते शोभनंमन्यः । शोभनमानी पण्डितमानी ॥
भूते ॥ ७२ ॥
भूत इत्यधिकारो वेदितव्यः । धोरिति वर्तते । अर्थवशाद्भते ध्वर्थे वक्ष्यमाणा विधयेो भवन्तीत्यर्थः । वक्ष्यति दृशेः केनिप् । मेरु दृष्टवान् मेरुदृश्वा । भूत इति किम् । मेरु ं द्रक्ष्यति । न च भूतशब्दस्येतरतराश्रयत्वेनासिद्धिः, अनादित्वाच्छन्दव्यवहारस्य । भूत इति निसंज्ञको वा शब्दः । इयन्त इति संख्यानं निसज्ञानां न विद्यते । प्रये। - जनवशादेते निपात्यन्ते पदे पदे ॥ १ ॥