________________
जैनेन्द्रव्याकरणम् ।
२७७
चतुष्टयी शब्दानां प्रवृत्तिरित्यस्मिन् दर्शने जाति प्रतिषेधोऽयम् । अजातिवाचिनि सुबन्ते वाचि शीले गम्यमाने धोर्णिन्भवति । सुपीति वर्त्तमाने पुनः सुपग्रहणं सुम्नात्रार्थम् । अन्यथा अज्ञाताविति सत्यवाचिनः प्रति varदन्यस्यापि सत्यवाचिनो ग्रहणं स्यात् । उष्णं भुंक्ते इत्येवंशीलः उष्ण भोजी । उदासारिण्यः । क्रन्यासारिण्यः अज्ञाताविति किम् । शालीन भुङ्क्ते इत्येवं शीलः शालि भोजः । साधूनामन्त्रयिता । शील इति किम् । उष्णभोजः आतुरः । कश्विदित्यनुवृत्तेः साधुकारिण्यप्यर्थे णिन् । साधु कारी साधुदायी । ब्रह्मणि वदे: णिन् वक्तव्यः । असमस्वाणो बाधकः । ब्रह्मवादिनो वदन्ति ॥
कर्त्तरी वे ॥ ६७ ॥
कर्तरि वाचि इवार्थे धोर्णिन् भवति । उपमानभूते कर्तरीत्यर्थः । जात्यर्थ शीलार्थ चेदम् । उष्ट्र इव क्रोशते उष्ट्रकोशी | ध्वांक्षवी । खरनादी । सिंहनदीं । नृत्येवार्थस्योक्तत्वादिवशब्दस्याप्रयोगः । कर्त्तरीति किम् । तिलानिव भुक्ते कोद्रवान् । इव इति किम् । उष्ट्रः क्रोशति ॥ व्रते ॥ ६८ ॥
।
सुवन्ते वाचि धोर्णिन् भवति । समुदायेन व्रतं गम्यते । शास्त्रपूर्व को नियमो व्रतम् । पार्श्वशायी । स्थण्डिशायी । वृक्षमूलवासी । श्राद्धं न भुंक्त व्रतमस्मा श्राद्धभाजी | अलवणभाजी | सापेक्षस्यास्यापि नञो वृत्तिव्य ख्याता । व्रत इति किम् । स्थण्डिले शेते कामचारेण ॥
प्रायोऽभीक्ष्णं ॥ ६६ ॥