________________
२७५
जैनेन्द्रव्याकरणम् । प्रसूते प्रसूः । अण्डं सूते अण्डसूः । शतसूः। गर्भसूः। विद्वेष्टीति विद्विट् । मित्रहिट । प्रपतीति प्रधृक् । मित्राय द्रुह्यति मित्रध्रुक् । प्रदोग्धि प्रधुक । युजिह योगे युज समाधाविति चाविशेषेण ग्रहणम् । प्रयुनक्त प्रयुक् । अश्वयुक् । युजेरार्यतस्याऽपि युज इति निपातनात् रुप प्रयोजयतीति प्रयुक् । अश्वान् योजयति । अश्वयुक। विदेरविशेषेण ग्रहणम् । प्रवित्। धर्मवित् । प्रभित । बलभित् । प्रच्छित् । रञ्जच्छित् । प्रजित् । कर्मजित् । प्रणीः । ग्रामणी । विराजते विराट् । सम्राट् । मन्वन्कनिविचः कचित् । किबिति किपि सिद्धे नियोगार्थमिदम् । सुपीति वर्तमाने गिग्रहणं किमर्थम् । अन्यत्रसुद्ग्रहणे निग्रहाणां नास्तीति ज्ञापनार्थम् । तेन वदः सुपि क्यप् चेति गो क्यन्न भवति । प्रवाघमनुवाद्यम् ॥
अदाऽनन्ने ॥ ६॥ अदे कि भवति अनन्ने सुवन्ते वाचि। श्राममत्ति आमात् । वृक्षात् । अन्न इति किम् । अन्नादः ॥
क्रव्ये ६१ ॥ ऋव्यमाममासं ऋव्यशब्दे वाचि अदेः किप भवति। क्रव्यमत्ति ऋव्यात् । पूर्वेणैव सिद्ध पुनरारम्भः असरूपस्याणो बाधकः । कथं तर्हि क्रव्यादः पृषोदरादिषु कृत्तविकृतादः क्रव्याद इति द्रष्टव्यम् ॥
मन्वन्वनिविचः क्वचित् ॥ ६२ ॥ मन् वन कनिप् विच इत्येते त्याः कचिद् दृश्यन्ते । गावपीत्यनुवर्तते । सुशम्मी सुवमा । कृदिति वचनात्