________________
जैनेन्द्रव्याकरणम् |
२७१
गच्छति विहगः । सुदुरोरधिकरणे डो वक्तव्यः । सुखेन गच्छति अस्मिन् सुगः । दुर्गः । निशा दिशे निर्गे देशे डित्यभस्याम्पि डित्करणसामर्थ्यात् टः खम् ॥
आशिषि हनः ॥ ४१ ॥
शिष्यर्थ हन्तेर्डी भवति कर्मणि वाचि । तिमि हन्ति तिमिहः । शापहः ॥
अपे क्लेशतमसेाः ॥ ४८ ॥
अप इति कास्थाने इप् । अपपूर्वात् हन्तेः क्लेशतमसेोः कर्मणोः वाचः डेो भवति । अनाशीरर्थो ऽयमारम्भः । क्लेशापहः । तमापहः ॥
कुमारशीर्षयेार्णिन् ॥ ४६ ॥
कुमार शीर्ष इत्येतयोः कर्मणोर्हतेर्णिन् भवति । अशीलार्थोऽयमारम्भः । कुमारघाती । शीर्षघाती । शीर्षशब्दो ऽकारान्तः शिरः पर्यायेोऽस्ति ॥
टगमनुष्ये ॥ ५० ॥
हन इति वर्तते । हन्तेः कर्म्मणि वाचि दगू भवति मनुष्ये कर्तरि । पित्तं हन्ति पितघ्नं घनम् । श्लेष्मघ्नमौषधम् । जायाघ्नस्तिलकः । पतिघ्नी रेखा । अमनुष्य इति किम् | पापघातस्तपस्वां । चारघाता हस्तीत्यत्र युद्धा बहुलमिति बहुलवचनाद्ण् ॥ जायापत्योर्लक्षणे ॥ ५१ ॥
लक्षणं चिह्न तदस्यास्तीति लक्षणः । अर्श आदिपाठादः ।
२०