________________
memainpunament
२७०
महावृत्तिसहितम् । कर्तरि तो दीत्वं चात एव निपातनात् आसितस्य भवनमासितम्भवो वर्तते । आसिता भवत्यनेनालमयमामितम्भव ओदनः । प्रकरणान्तरविहितोयुडपि भवति । भावे घन समत्वादयं बाधकः ।
भृतजि धारिसहितपिदमः खो ॥ ४४ ॥
भृत जि धारि सहि तपि दमि इत्येतेभ्यः खुविषये खज भवति कर्मणि सुपि वाचि यथासम्भवमयं विधिः । विश्वम्भरा । वसुन्धरा । रथन्तरो नाम राजा । वृडामो पतिंवरा कन्या । अरिचयः। युगं धारयति इति युगन्धरः। खचीत्युङः प्रादेशः । सकुसहः । सकुन्तपः । दमिरन्तर्गतरायर्थः । अरिन्दमः । खाविति किम् । कुटुम्बभारः॥
गमः॥४५॥ खाविति वर्तते । सुवन्तवाचि गमेझैः खञ् भवति । सुनङ्गमो नाम कश्चित् । कचिदखावपीष्यते। मितंगमे श्वा । अमितङ्गमा हस्तिनी। विहायसो विहादेशः खच्च वा डिद्वक्तव्यः। विहायसा गच्छति विहङ्गः । विहङ्गमः । तुरभुजयोश्च । तुरङ्गः । तुरङ्गमः । भुजङ्गः । भुजङ्गमः ॥
खाविति निवृतं गम इति वर्तते गमेडों भवति । सुवन्ते वाची अन्तादिषु वाक्षु प्रायेणाभिधानम् । अन्तगः । अत्यन्तगः । अध्वगः । दूरगः । पारगः। अनन्तगः । गुरुतल्पगः । ग्रामगः । सर्वत्र गच्छति सर्वत्रगः । पन्नं गच्छति पन्नगः । उरसः सखच्चेति वक्तव्यम् । विहायसो विहं च । उरसा गच्छति उरगः। विहायसा।
m
aranewsmpensate