________________
a
nRainindeneumo
n
eRmmeme
-
Asson
महावृत्तिसहितम् ।
गष्टक ॥ ११ ॥ गा इत्येतस्माडोः कर्मणि वाचि टगित्ययं त्यो भवति वक्रगः । वक्रगी। दाज्ञ इति नियमादगिपूर्वादातः कर्मणि को विहिस्तस्मिन्नेव विषये टक् अन्यत्राणेव भवति । वत्क्रसंगायः॥
सुरासीध्वाः पिबः ॥ १२ ॥ सुरा सिधु इत्येतयोः कर्मणाः पियतेः टग्भवति । सुरापः। सुरापी । सीधुपः। सीधुपी । अयमपि कापवादः। सुरासीध्वोरिति किम् । क्षीरं पिबतीति क्षोरपा कन्या।। पिव इति विकृतनिर्देशः किम् । सुराम्पातीति सुरापा॥
ग्रहेरः ॥ १३ ॥ आहे?: कर्मणि वाचि अ इत्ययं त्यो भवति । शक्तिलागलाशयपितामरघटघठीधनुःषु वाक्षु प्रायेणाभिधानम् । क्तिग्रहः। लाङ्गलग्रहः । अङ्कशग्रहः । यष्ग्रिहः । तोमरग्रहः। घटग्रहः। घटीग्रहः । धनुग्रहः । सूत्रग्रहो भवति धारयति चेत् सूत्रग्राहोऽन्यः ।।
होऽनुत्सेधे ॥ १४ ॥ उत्सेध उत्क्षेपणम् । हुन अनुत्सेधे वर्तमानात् कर्मणि वाचि अत्यो भवति । अंस हरति अंसहरः। भागहरः। रिछुहरः । अनुत्सेधे इति किम् । भारहारः। न केवलमु. च्छाये उत्क्षेपणेऽप्युत्सेध इति शब्दो वर्तते तद्यथा नानाजातीया अनियता उत्सेधजीविन इति ॥
वयसि ॥ १५ ॥ शरीरिणां कालकृतावस्था चयः तत्र अत्यो भवति
Menukasaanems