________________
जैनेन्द्रव्याकरणम् । सुवन्ते वाचि धोरातः को भवति । पादैः पिबति पादपः । कच्छेन पिति कच्छपः । द्वाभ्यां पिबति द्वीपः । समस्थः । विषमस्थः । धम्ाय प्रददाति धर्मप्रदः। शास्त्रेण प्रजानाति शास्त्रप्रज्ञः । अकर्मण्यपि वाचि यथा स्यादिति सुग्रहणम् । इह केचिदात इति नानुवर्तयन्ति । तेन मूलविभुजादिष्वभिधानवशात् कः सिद्धः। मूलान् विभुजति मूलावभुजो रथः । जलरुहम् । नखमुचानि धषि । काकगुहास्तिलाः॥
स्थः ॥८॥ सुपि वाचि तिष्ठतेः को भवति कर्तरि । पूर्वो योगः अनिर्दिधार्थत्वात् भावेऽपि यथा स्यादित्यारम्भः । भारवूनामुत्थानमारबत्थः। सलभात्यः। स्थास्तभाः पूर्वस्योद इति सकारस्य पूर्वस्वत्वम् ॥
दुहो घश्च ॥६॥ इतः प्रभृति कर्मणीति सुपीति च यमनुवर्तते । कर्मणि वाचि दुहेः को भवति घकारश्चादेशः । कामन्दाग्धि कामदुघो धर्मः । कामदुधा धेनुः ॥
तुन्दशोकयोः परिमृजापनुदाः ॥ १० ॥ __तुन्द शोक इत्येतयोः कर्मणाचाः परिमृज अपनुद इत्येताभ्यां को भवति । अविशेषेण सुपीत्येतेनैव के सिद्ध आलस्यसुखाहरणयोरथयार्यथा स्यादित्यारम्भः। तुन्दपरि. मृजः अलसश्चेत् । शोकापनुदः पुत्रो जातः । पूर्व तिकुप्रा. दय इति षसः पश्चाद्वाक्सः। आलस्यसुखाहरणयोरिति किम् । तुन्दपरिमार्ज आतुरः । शोकापनोदो धर्माचार्यः ।।
-
-
-