________________
जैनेन्द्रव्याकरणम् ।
२६३
वयसि गम्ये । अयमुत्सेधार्थ आरम्भः । कवचहरः चत्रिय कुमारः । अस्थिहरश्च शिशुः । दृशोरसंभाव्यमानेन वा भारोत्तेपणेन वयो गम्यते ॥ श्राङि शोले ॥ १६ ॥
शीलं स्वाभाविकी प्रकृतिः ! आङि च वाचि हञ अयो भवति शीले गम्यमाने । पुष्पाहरः । फलाहरः । सुखाहरः । उत्सेधानुत्सेधयेारयं विधिरिष्यते । अनुत्सेधे पूर्वेण कस्मान्न भवति शीले परत्वानृत्स्यात् । शील इति किम् । भारमाहरति भाराहारः ॥
1
अर्हः ॥ ११ ॥
अर्हतेः कर्मणि वाचि त्यो भवति । पूजा प्रतिमा । स्तम्बेरम कर्णेजपै ॥ १८ ॥
स्तम्बेरम कर्णेजप इत्येतौ शब्दौ हस्तिसूचकयेोरर्थयोर्निपात्येते । स्तम्बेरमो हस्ती । कर्णेजपः सूचकः । स्तम्बकर्णयेोरमिजपोरिति सूत्रं कर्त्तव्यं सुपीति वर्तते । षे कृति बहुलमित्यनुपा सिद्धम् । अर्थविशेषपरिग्रहार्थं निपातनम् । इह मा भूत् । स्तम्बे तृणस्तव के रन्ता गौः । कर्षे जपिता वैद्यः ॥ शमि धाः खैा ॥ १६ ॥
शमिवाचि धोः खुविषये अत्येो भवति । शम्भवः । शंवदः । शङ्करः । धुग्रहणेऽनुवर्त्तमाने पुनधु ग्रहणं बाधकबाधनार्थम् । शङ्करा नाम परिव्राजिका । खुविषये कृञो हेत्वदिषु परत्वाहो मा भूत् । खाविति किम् । शङ्करी जिनविद्या |
शीङो ऽधिकरणे ॥ २० ॥
१६