________________
जैनेन्द्रव्याकरणम् ।
२५५ __ण्वु तृच एत्येतो त्या भवतः । कारकः । कता भोजकः । भोक्ता॥ नन्दिग्रहिपचिभ्यो ल्यणिन्यचः॥ १०६ ॥
नन्द्यादिभ्यः ग्रहादिभ्यो पचादिभ्यश्च यथासंख्यं| ल्यु णिन् अच् इत्येते त्या भवन्ति । नन्दयतोति नन्दनः। लकारः युवारनाकाविति सामान्यग्रहणाविघातार्थः। नन्दि वाशिमदिनदिभूषिसाधिशोभिवढिभ्यो ण्यन्तेभ्यः संज्ञायां सहितपिदमिज्वलिरुचिजल्यिदृपिरसिसङ्कन्दिसङ्कर्षिभ्यः संज्ञायामण्यन्तेभ्यः। जनार्दनः । मधुसूदनः। लवण इति निपातनाण्णत्वम् । विभीषणः। पवनः। वित्तनाशनः । कुलदमन एतावणाऽपवादौ इति नन्दादिः । ग्रह उत्सह उदास स्था उद्धास मन्त्र संमई निरक्षी निश्रावी निवार्य निवेशो एतेभ्यः निपूर्वेभ्यः । अयाची अव्याहारी असंव्याहारी वादी अब्राजी अवासो एतेभ्यः प्रतिषिद्धभ्यः । अचामचित्तकर्तृकाणां प्रतिषिडानामिति वर्तते । अकारी अहारी अविनायी विषयीशन्दी देशे अद्रिभावी निपात. नात्प्रविभावी भूते भवतः अपराधी उपरोधो परिभवी परिभावी इति ग्रहादिः । पच यठ वय वद चल पत तथा चरिचलिपतिवदीनामध्यात्कस्येति वक्ष्यते । न प्लट तर चरट् चोरठ् चेलट् हट देवट टिकरणं खियां द्यर्थम् । जर मर क्षरं सेच मेष कोष दर्भ सर्प नर्त प्रण डर अणि विषयेपि श्वपच चक्रधर पचादिराकृतिगणः ॥
ज्ञाकुप्रीगुङः कः ॥ १०७ ॥ ज्ञाकृती इत्येतेभ्यः इगुडश्व धोः को भवति । जानातीति ज्ञः। आकारान्तलक्षणो णः प्रातः । इह अर्थ जाना
-