________________
महावृत्तिसहितम् । पुष्यन्त्यस्मिन्नों आरभमाणानामिति पुष्यः । सिध्यत्यस्मिन्नर्था इति सिाः । अधिकरणे क्यमिपात्यते नक्षत्रे वाच्ये । अन्यत्र पोषणः सेधन इति च भवति ॥ विपूयविनोयजित्या मुञ्जकल्कहलिषु ॥ ६ ॥
विपूय विनीय जित्या इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क हलि इत्येतेषु वाच्येषु। विपूयते इति विपूयो मुञ्जः। पवते क्यामिपात्यते । विपव्यमन्यत् । विनीयतेऽसौ घृतादिना त्रिफलादिकल्कः। विनेयमन्यत्। जित्यो हलिः । जेयमन्यत् ॥
पदास्वैरिबाह्यापक्ष्येषु ग्रहः ॥ ६ ॥
पदे अस्वैरिणि बाह्यायां पक्षे चाथै ग्रहेोः क्यभवति । प्रगृह्यते इति प्रगृह्यं पदम् । अवगृह्यम्पदम् । अस्वैरी परवशः। गृह्यका इमे । अनुकम्पायाङ्कः परतन्त्रा इत्यर्थः । बहिर्भवा बाह्या गृह्यते इति गृह्या ग्रामस्य गृह्या ग्रामगृह्या नगरगृह्मा सेना। ताभ्यां बहिर्भूत्ता इत्यर्थः । स्त्रीलिङ्गादम्यत्र न भवति । पक्षे भवः पक्ष्यः । भरतगृह्यः। भुजबलिगृह्यः तत्पक्ष्य इत्यर्थः ॥
कृषिमृतां यशोभद्रस्य ॥ ८ ॥ कार्थता। कृ वृषि मृज् इत्येतेभ्यःक्यप भवति यशोभद्रस्याचार्यस्य मतेन । कृत्यम्। कार्यम् । नित्यं ण्यः प्राप्तः । वृष्यम् । वयम् । परिमृज्यम्। परिमार्यम् । ऋदुड इति नित्यं क्यप् प्राप्तः।
युग्यं पत्रे॥६॥