SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४८ महावृत्तिसहितम् । योऽचारासयुवः ॥८४ ॥ य इत्ययं त्यो भवत्यजन्ताडोः ऋवर्षान्त आसु यु इत्येतान् वर्जयित्वा । देयम् । गेयम् । ईथे इति ईत्वं गागयोरिति पुनरे । देयमृणइति निर्देशादीत्वे गुकार्ये निवृत्ते पुनरे । दित्स्यं धित्स्य मित्यत्र अगे ये परतोऽतः रूम् । अच इति किम् । पाक्यम् । अरासुयुव इति किम् । कार्यम् । हार्यम् । आसाव्यम् । याव्यम् ॥ पोरदुङोऽत्रपिवपिरपिलपिचमः ॥ ८५ ॥ पवर्गान्ताडोग्दङ य इत्ययं त्या भवति अपिवपिरपिलपिञ्चमीन् वर्जयित्वा । रभ्यम् । लभ्यम् । समत्वेन ण्यापवादोऽयम् । पारिति किम् । वाच्यम् । अदुङ इति किम् । डेप्यम् । कुटादित्वादेम्न स्यात् । तपरकरणमसन्देहार्थम् । अत्रापि वपिरपिलपिचम इति किम् । त्राप्यम् । वाप्यम् । राप्यम् । लाप्यम् । आचाम्यम् । शकिसहश्च ॥ ८६ ॥ शकि सह इत्येताभ्यां यो भवति । शक्यम् । सत्यम् । चकारो ऽनुक्तसमुच्चयार्थः । तेन ससितकिचतियतियजिजनीनां संग्रहः । सस्यम् । तक्यम्। चत्यम् । यत्त्यम् । पज्यम् । जन्यम् । हनो वा वध इति च वक्तव्यम् । वध्यम् । घात्यम् ॥ गदमदचरयमोऽगेः ॥ ८ ॥ गद मद चर यम इत्येतेभ्यो ऽगिपूर्वेभ्यः यस्त्यो भवति । गद्यम् । मद्यम् । चर्यम् । यम्यम् । अमेरिति किम् । निगायम् । प्रमाद्यम् । अभिचार्यम् । प्रायाम्यम् । यमः
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy