________________
२४६
महावृत्तिसहितम्
स्तुनोति । स्तुनाति । स्कनोति । स्कश्नाति । स्कुनोति । स्कुनाति । स्कुनाति ! स्कुनोति । स्कुञ् क्रयादिषु पठ्यते । इतरेषामिहैवोपदेशः उदित्करणादन्यत्रापि प्रयोगः ॥
हौ हलः पुनः शानः ॥ ७८ ॥
हल उत्तरस्य श्रा इत्येतस्य ज्ञान इत्ययमादेशा भवति है। परतः । अज्ञान । पुषाण । हाविति किम् । अनाति । हल इति किम् । क्रीणीहि । न इति स्थानिनिदेश किमर्थः स्तम्भादीनां यदा शुस्तदा मा भूत् । स्तभ्नुहि । त्यान्तरं वा सर्वेभ्यः सम्भाव्यते । शानस्य शिस्करणज्ञापकम् । अनित्येऽनुबन्धस्य स्थानिवद्भाव इति तेन लङादीनां मिवादिषु स्थानिवद्भावादित्वं डि च । न भवति पचमाना स्त्री । अचिनवम् | असुनवम् ॥
ईपात्र वाक् ॥ ७६ ॥
धोरिति वर्तते । श्रत्र धोरधिकारे ईपा निर्दिष्टं वाक् संज्ञं भवति । गम्यमानक्रियापेक्षया ईपेत्यस्य करणत्वम् । वक्ष्यति कर्मण्यण कुम्भकारः । शरलावः । मृदूपस्येयं वाक्संज्ञा तेन कर्तृकर्मणोः कृतीति कर्मणि ता भवति । तासाद्वाक्सः परत्वेन । अत्रग्रहणं विस्पष्टार्थम् । वागितायमन्वर्था संज्ञा । ब्रूतेऽर्थं वाणिति तेनासामर्थ्य वाक्संज्ञा नास्ति । पश्य कुम्भं करोति कदम् । मृत्पिण्डं कुम्भं करोति । महान्तं कुम्भं करेति । विशेषणानां च न भवति । हरतेईतिनाथयेोः पशाविति पशुशब्दस्य न भवति । यत्र वाचकत्वं तत्र भवति । काशकटकारः ॥ कृदमिङ् ॥ ८० ॥