________________
जैनेन्द्रव्याकरणम् ।
२४५
नान्मखमिति विशेषणार्थः । मकारः परोऽचेो मिदिति विशेषणार्थः । रुणद्धि । भिनत्ति । तुदादिभ्यः शः । तुदति । क्षिपति ॥
कृञ्तनादेरुः ॥ १४ ॥
कृञ् इत्येतस्मात्तनादिभ्यश्च उरित्ययं त्यो भवति । करोति । कुरुतः । कुर्वन्ति ।
तनादिभ्यः । तनोति । सनोति । क्षणोति । तनादित्वादेव सिड पृथक् कृञो ग्रहणं किम् । अन्यत्तनादिकार्य करोतेर्माभूत् ।
तनादिभ्यस्तथा सोरिति विभाषया सेरुम्न भवति । अकृत | अकृथाः । न चानुष्पक्षे प्राङ्नेोरिति खं सम्भवति । तस्मिन् प्राप्त उप आरम्भात्सेः श्रवर्णं प्रसज्येत ॥ धिन्विकृणव्योर च ॥ १५ ॥
विवि प्रीणने कृषि हिंसाकरणयेोः इत्येताभ्यां उरित्ययं त्यो भवति अकारश्चान्तादेशः । धिनोति । कृणोति । अतः खम् । नधुखे ग इति प्रतिषेधात् परेऽचः पूर्वविधा विति स्यानिवद्भावाद्वा न भवति । सनुम्कोच्चारणं ज्ञापक त्योत्पत्तेः प्रागेव तुम्भवतीति । तेन कुण्डा हुण्डेति सिद्धम् ॥
क्र्यादेः पूना ॥ १६ ॥
की इत्येवमादिभ्यो धुभ्यः ना इत्ययं त्यो भवति । क्रीणाति । प्रीणाति ॥
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः प्रनुश्च ॥ ७७ ॥ स्तभ्वादिभ्यः भर्भवति श्रा च । स्तभ्नोति । स्तन्नाति ।