________________
जैनेन्द्रव्याकरणम् । दिपर्यन्ता त्यदादयः।युष्मद् अस्मद् भवत् किम् । त्यदादीनां यद्यत्परं तत्तदुभयवाचि । सर्वनामेत्यन्वर्थसंज्ञावि. ज्ञानात् संज्ञोपसर्जनानां न भवति । सर्वोनाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय । पूर्वपदात वावग इति णत्वं न भवति । सर्वनामप्रदेशा आम्यात्सद्धनास्न इत्येवमादयः ॥
वा दिक्लवे ॥ ३६ ॥ दिगुपदिष्टे से वसंज्ञके सवादीनि वा सर्वनामसंज्ञकानि भवन्ति। न वे इति प्रतिषेधे प्राप्ते वचनम् । दक्षिणपूर्वस्यै दक्षिणपूर्वायै। उत्तरपूर्वस्यै । उत्तर पूर्वायै । दक्षिणस्याश्च दिशार्यदन्तरालमिति प्रदाय दिशो ऽन्तराल इति वसः। सर्वनाम्नो वृत्तिमात्रे पुवद्भाव इति पूर्वपदस्य पुंवद्भावः। उत्तरपदस्य स्त्रोगोर्नीच इति प्रः। पुनराप । प्रतिपदोक्तस्य दिक्सस्य ग्रहणादिह नास्ति विकल्पः । दक्षिणैव पूर्वा अस्य मुग्धस्य दक्षिणपूर्वाय देहि । दज्ञिणा च सा पूर्वा च सा अस्मिन्नपि विग्रहे परत्वादिशो ऽन्तराले इतीयं प्राप्तिन राज्ञा दण्डवारितेति कर्तव्यमेवेदं सूत्रम् । दिग्ग्रहणं किम् । नवे इति प्रतिषेधं वक्ष्यति तस्य प्रतिषेधस्यास्य च विकल्प-1 स्य विषयज्ञापनार्थम् । सग्रहणं किम् । साधिकारविहिते वसे विकल्पो यथा स्यादातिदेशिके मा भूत् । दक्षिण दक्षिणमै देहि । श्राबाध इति द्वित्वम् । ववदतिदेशश्च न व इत्यत्रापीदं सग्रहणमनुवर्तते नापि न प्रतिषेधः । वग्रहणं किम् । दक्षिणोत्तरपूर्वीणाम् । द्वन्द्वे विकल्पो मा भूत् । नन प्रतिपदाक्तस्य ग्रहणमत्रोक्तं ततो द्वन्द्व इत्येव प्रतिषेधः सिद्ध उत्तरार्थं तर्हि वग्रहणम् ॥
wa