________________
महावृत्तिसहितम् ।
ष्णान्तेल ॥ ३४ ॥ ___ कतिः संख्येति वर्तते । षकारनकारान्ता संख्या | कतिशब्दश्च इल्संज्ञौ भवतः । ष्णान्तेति पदस्य संख्यापेक्षः स्त्रीलिङ्गनिर्देशः। कतेरनु वर्तनसामर्थ्यादिलसंज्ञा। षट् । पच्च । सप्त । कति तिष्ठन्ति । उविल इति जस उप ठणान्तेति संख्याविशेषणं किम् । विपुषः पामान इति अन्तग्रहणं वसनिर्देशेन संख्याप्रतिपत्यर्थमुपदेशिकार्थ च । तेन शतानीत्यादौ न भवति । इल्प्रदेशा उविल इत्येव. मादयः॥
सर्वादि सर्वनाम ॥ ३५ ॥ सर्वादयः शब्दाः प्रत्येक सर्वनामसंज्ञा भवन्ति । सर्वे । सर्वस्मै। सर्वेषाम् । स्त्रियाम् । सर्वस्यै । विश्वे । विश्वस्मै । उभशब्दस्य सर्वनाम्नोभावेत्येवमर्थः पाठः। उभाभ्यांहेतुभ्यां उभयो हेत्वार्यसति । द्विवचनटाप्परश्चायम्। उभौ पः। उभे कुले। उभे विद्ये । उभयस्मिन् । उभयेषाम् । जसि प्रथमचरमादिविकल्पात् पूर्वनिर्णयेनायमेव विधिः । उभये इति । डतरडतम इति त्यो । कतरस्मै । इतर अन्य अन्यतर । इतरमै । अन्यस्मिन् । अन्यतरस्मै । त्वमित्ययं शब्दो ऽन्यवाची। त्वे । त्वेषाम् । नेम । नेमस्मिन् । जसि वक्ष्यमाणे विकल्पः। नेमे नेमाः। समशब्दः सर्वशन्दास्यार्थे । समे । समस्मिन् । अन्यत्र यथासख्यं समाः ।समे देशे तिष्ठतीति भवति । सिमः। सिमस्मै । पू.
परावरदक्षिणेत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम् । अतरं बहिर्योगोपसंव्यानयोः। त्यद् तद् एतद् अदस इदम् एक द्विः। अत्वविधि प्रति