________________
merama
a
जैनेन्द्रव्याकरणम् । सुडिति प्रत्याहारेण स्वौजसमौटां ग्रहणम् । सुट् धसंज्ञो भवति नपुंसकलिङ्गादन्यस्य । राजा। राजाना । राजानः । राजानम् । राजानी । धेकाविति दीत्वम् । सुडिति किम् । राज्ञः पश्य । अनप इति किम् । सामनी । वेमनी । अनप इति पयुदासात् स्त्रोपुंसम्बन्धिनः सुटो धसंज्ञा नपुंसके न विधिर्न प्रतिषेधः । तत्र पूर्वेण जसिशसोरादेशस्य शेर्धसंज्ञा भवत्येव । ननु व्यक्तं स्त्रीपुंसग्रहणमेव कर्त्तव्यम् । एवं तहनप इति निर्दै शात् सापेक्षस्यापि नसः सविधिर्भवतीति ज्ञाप्यते। तेन | अश्राद्धभाज्यलवणभोजीत्येवमादयः सिडाः ॥
कतिः संख्या ॥ ३३ ॥ कतिशब्दः संख्यासंज्ञो भवति । कतिकृत्त्वः ।। कतिधा । कतिकः। किं परिमाणमेषां किमः संख्यापरि माणे डतिश्चेति डतिः । कति वारान् भुङक्ते । कतिभिः प्रकारैः । कतिभिः क्रीत इति । यथाक्रम संख्याया अभ्या|वृत्तौ कृत्त्वम् । संख्याया विधार्थे धा । संख्यायाः कोति
शत इति क इत्येते भवन्ति । ननु प्रदेशेषु संख्याब्रहणेनान्वर्थविज्ञानात् संख्यायते ऽनयेति कृत्वा कतिशब्दस्यापि ग्रहणे सिडे किमर्थमिदम् । नियमार्थम् । अनिीतेष कतिशब्दस्यैव संख्यारूपता। तेन भूरिप्रभूतादीनां नित्तिः मंख्यावाडो ऽबहुगणादित्यत्र बहुगणयोः प्रतिषेधाद्भवति संख्याग्रहणेन ग्रहणम् । बहुकृत्वः । गणकृत्वः । वैपुल्य सद्ध योन संख्यात्वम् । यताङिति वचनं ज्ञापकं भवति वत्वन्यस्य संख्याग्रहणेन ग्रहणम् । तावतिकः । तावत्कः। संख्याप्रदेशाः संख्यायाः को ऽतिशत इत्येवमादयः॥
ARMIN