________________
जैनेन्द्रव्याकरणम् |
२३३
मार्थमुक्तम् । अन्यत्र संज्ञाविधौ त्यग्रहणे तदन्तविधिनीति इति एष प्रतिषेधो मा भूदित्यन्तग्रहणम् ।
स्यतासी लृलुटेाः ॥ ३० ॥
ऌ इति लङ्लुटोः सामान्येन ग्रहणं धाः स्पतासी इत्येता मध्ये त्यौ भवतः लुलुटोः परतः । शब्दापेक्षमत्र यथासंख्यम् । धोरधिकरात् पूर्वभक्ततानिवृत्तिः अगासंज्ञा च भावकर्मकर्तृषु लो विहितः । तत्र यक्सपावुत्सगौ स्यादयस्तदपवादाः । करिष्यति । अकरिष्यत् । कती । तासेरिदित्करणं किम् । हलुङब्जित्य निदित इति नखप्र तिषेधार्थम् । हन्ता । मन्ता ॥
कास्यनेकाजत्याल्लिट्याम् ॥ ३१ ॥
1
कासेरनेकाजस्त्यान्ताच्च लिटि परतः आम्भवति । कासाञ्चक्रे । अनेकाज्भ्यः चकासाञ्चकार । चुलुम्पाञ्चकार । दरिद्राञ्चकार । त्यान्तात् लोलूयाञ्चक्रे । कारयाञ्चक्रे । गवाश्वकार । आचारार्थे मृद्भ्य इति किप् । अनेकाज्ग्रहणमत्यान्तार्थम् । श्रमिति नायमागमः । कासेर्विधानात् ॥
सरोरिजादेः ॥ ३२ ॥
1
सह रुणा वर्त्तते इति सरुः । सरोरिजादेर्धा : लिव्याम्भवति । ईहाञ्चक्रे । इन्दाञ्चकार । उपदेशावस्थायां नुम् । ऊहाञ्चके । उञ्छाच्चकार । उद्म्भाञ्चकार । सरोरिति किम् । इयेष | उवोष । एपि कृते सरुरिति चेत् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति । इजादेरिति किम् । ततक्षऋच्छत्यतामिति लियेपवचनं ज्ञापकं ऋच्छेम्न भवति । आनछे । श्रानर्च्छतुः । नच्छेः,