________________
१३२
महावृत्तिसहितम् |
शुपू धूप विच्छि पषि पनि इत्येतेभ्यो धुभ्य आयो भवति । गोपायति । धूपायति । विच्छेरन्तरङ्गत्वात्तु कि कृत आयः । विच्छायति । अनुदात्तेत्वं केवले चरितार्थमिति दो न भवति । गुपादिभिभवादिकैः साहचर्यात्पणेrariant ग्रहणं न तादादिकस्य शतस्य पणते व्यवहपणेोः सामर्थ्य इति कर्म्मणि ता । पनिरिहैव पणिना समानार्थः उपदिश्यते । पनायति ॥ वाडगे ॥ २७ ॥
अगविषये गुपादिभ्यो वा आयो भवति । गोपायिता । गोप्ता । गोपायांचकार । जुगोप। गेोपाया । गुप्तिः । इत्येवमादि येोज्यम् ॥
कमृत्योर्णिङीयङ् ॥ २८ ॥
सूत्रत्वात्कायाः स्थाने ता कृता । कम् ऋति इत्येनाभ्यं णिङ् ईयङ् इत्येतौ त्यौ भवतः । कामयते । शकारः ऐवर्थः । न कम्यमिचमामित्यत्र कमेर्मित्संज्ञाप्रतिषेधः किमर्थः इणमेोदीर्मतामिति वा प्रादेशो मा भूदित्येवमर्थः ।
कामि । कामं कामम् । वाग इति पिङानुत्पत्ती णिज्निमित्तस्यैप: प्रादेशनिवृत्यर्थश्च ङकारो दविध्यर्थः । ङ्कितत्प्रतिषेधार्थं न भवति इकस्तत्रानुवृत्तेः ऋतिरिहैव घृणार्थमुपदिश्यते ऋतीयते । वाग इति च वर्तते । तेन कमिता । कामयिता । अर्तिता । ऋतीयिता ॥
तदन्ता धवः ॥ २६ ॥
येsनुक्रान्ताः सनादयस्ते अन्ता येषां ते घुसका भवन्ति । तथा चैवोदाहृतम् । पदसंज्ञायामन्तग्रहणं निय