________________
२२४
महावृत्तिसहितम् ।
काम्यः ॥७॥ स्वस्य यदिवन्तं तस्माद्वा काम्यो भवतीच्छायाम् । पुत्रमिच्छत्यात्मनः पुत्रकाम्यति । पटकाम्यति । ककारस्य प्रयोगार्हत्वादित्संज्ञा नास्ति । योगविभागादुत्तरत्र क्यच एवानुवृत्तिन काम्यस्य ।
गौणादाचारे॥८॥ ___ गौणममुख्यमाचरणक्रियायामुपमानमित्यर्थः । गौणादिवन्तादाचारेऽर्थे वा क्यज भवति । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रावारीयर्यात कम्बलम् । व्यवस्थितविभाषाधिकारादीदपि भवति । प्रासादयति कुव्ये ।।
कर्तुः क्यङ् सख विभाषा ॥ ६॥ कत्तुंर्गौणादाचारेऽर्थे वा क्यङ् भवति यद्यन्ते सकारस्तस्य च खं विभाषया । इह कतृग्रहणादिन्न सम्भवति सुवन्तात् क्यङ् । श्येन इव आचरति काकः श्येनायते । कुमुदं पुष्करायते । व्यवस्थितविभाषेयम् । ओजोप्सरसोनित्यं पयसस्तु विभाषया सखम् । ओजस्वीवाचरति ओजायते । वृत्तिविषये मत्वर्थीयः क्योक्तः। अप्सरायते। मथितं पयायते पयस्यते । असखपक्षे नः क्य इति नियमात् पदत्वाभावे रित्वादिविधि भवति। कत्तु रिति सखापेक्षया तयाविपरिणम्यते तेनान्त्यस्य खं इह न भवति।सारसायते। आचारसर्वमृद्भ्यः किन्वा भवतीत्येके। अश्व इवाचरति अश्वति । अश्वायते ॥
भृशादेपूच्ची हलो भुवि ॥ १० ॥