SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २२२ महावृत्तिसहितम् । नेनाविधानात् अगसंज्ञा नास्ति । तेन नेडागमः । निन्दाक्षमारोगापनयेषु यथाक्रम सन्निष्यते। गोपननिशाननिवासादिषु न भवति।गोपनंगे पायति। तेजनं तेजयति। निकेतनं निकेतयति। भुवादिषु पाठः किमर्थः अस्त्यादित्यकारो यथा स्यात्। जुगुप्सा। तितिक्षा। चिकित्सा । सनोऽकारोपदेशः प्रतीषिषतीत्यादी श्रवणार्थः । एकदेशकृतं लिङ्गं समुदायविशेषणम् । अनुदात्तत्त्वमाद्याभ्यां तेनायं दो विधीयते । मान्वधदान्शान्भ्यो दीश्चस्य ॥ ४ ॥ मान् वध दान सान् इत्येतेभ्यः सन् भवति दीश्च स्थेकारस्य । मीमांसते । बीभत्सते । दोदांसते । शीशांसति।। शोशासते। आद्यावनुदात्तेतै। परौ स्वरितेती च। विकारेष्वपवादा उत्मग्न बाधन्त इति कृतेऽकारस्य चस्थ दीत्वम्। अत्रापि जिज्ञासावैरूप्याजवनिशामनेष पथाक्रमं सन्निष्यते । पूजाबन्धनाचखण्डनतेजनेषु भवति ।मानयति। बन्धयति । निशानयति । दान उत्तरत्र वेति व्यवस्थितविभाषा । तदवलोकनादयं विभागः । तमीच्चायां धारूप ॥५॥ इच्छायां तुमि योधुस्तस्मात् सन् वा भवति तुमश्चो. भवति यदा सन् । कतुमिच्छति चिकीर्षति । बुभुक्षते।अयं होच्छायांतुम् विहितः। हेतुफलयोरित्यधिकृत्य इच्छार्थे लिङ्लौटी तुमेककर्तृक इतिवचनात् । इहापि सामान्यविशेषभावेन हेतुफलभावोऽस्ति । एषितुमिच्छति एषिषिषति। तुभिति किम। इच्छायामित्युच्यमाने इच्छार्थानामिषिवाछयादीनां ग्रहणं स्यात्। तुम्ग्रहणे सति इच्छायामित्येत - Home
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy