________________
जैनेन्द्रव्याकरणम्। २२१ कर्मण्यण इत्येवमादावीपा निर्दिष्टं विशेषणं दृतिनाथयो:पशा हृन इत्येवमादी पश्वादि । विकारः सतो भावान्तरावाप्तिः । दुहो घश्चेत्येवमादिषु धकारादिः। आगमः परतनःत्रपुजतुनो गित्येवमादिः। युक्तिरुच्यते निमित्ति कार्यन्न निमित्तस्येति प्रकृतिवागुपाधीनामग्रहणम् । अथवा भाव्यमानविभक्तिनिर्दिष्टं सन्नादिप्रधानं भूतविभक्तीनिर्दिष्टं प्रकृत्याचप्रधानं प्रधाने च कार्यसम्प्रत्ययः विकारागमयोस्तु पर इत्यनेन निरास: नहि तयोः परत्वसम्भषः। वक्ष्यति तव्यानीयौ । कर्तव्यः। करणीयः। प्रतिपन्ति तेनार्थमिति प्रत्ययः । पुखैाघः प्रायेणेति घः। एवं यद्यन्वर्था संज्ञा क्रियेत तदा प्रकृतेः सविभक्तिकस्य वा पदस्य त्यसंज्ञा स्यात् । त्यप्रदेशाः यत्त्येत्यदादिगुरित्येवमादयः॥
परः॥२॥ परिभाषेयं नियमार्था । पर एव भवति चोदो वा यस्त्यसंज्ञः । कर्त्तव्यः। करणीयः । औपगवः।धोरित्येवमादी दिग्योगलक्षणकानिर्देशेऽपि पूर्वशब्दस्याध्याहारः स्यादिति परत्वं न लभ्यते ईप्केत्यव्यवाये पूर्वपरयोरित्यत्र यदि कार्य परमुच्यते ततानिर्दिष्टस्येति न च सनादयस्तानिर्दिष्टाः अथासतः प्रादुर्भावः पर उच्यते एवं सति नियमार्थमिदं त्यपरैव प्रकृतिः प्रयोक्तव्या न केवला ॥
गुप्तिकिझ्यः सन् ॥ ३॥ त्य इति वर्तते। गुप् तिज कित् इत्येतेभ्यः परः सन् भवति । जुगुप्सते । तितिक्षते । चिकित्सति । धुसंशब्द.
ndian
i
-