________________
-
-
जैनेन्द्रव्याकरणम् ।
२१५ ननु भरतः प्राच्य एव तेषां पृथग्रहणं किमर्थं ज्ञापकार्थ मन्यत्र प्राच्यग्रहणे भरतग्रहणं न भवतीति। तेन प्राचामिञो तौल्वलिभ्य इति अत्र भरतानां युवत्यस्योन भवति । यौधिधिरिः पिता याधिधिगयणः पुत्रः । ननु युधिधिरादिभ्य इलेव नास्ति कुर्वृष्यन्धककृष्णरित्यणा भवितव्यम्। इह तह उन्न भवति श्राहालकिः पिता श्रीहालकायनः पुत्रः। अत्र प्राचामिनो तौल्वलिभ्य इति युवन्यस्योप्प्रसज्येत एतद्धि प्राच्यभरतगोत्रम् ।
नगोपवनादेः ॥ १३८ ॥ विदाधन्तर्गणो गोपन्दनादिः । गोपवन इत्येवमादेः परस्य वृद्धत्यस्योब् न भवति । गोपवनस्थापत्यानि गौपबनाः । यात्रओरित्युप्राप्तः । गोपवन शिपिण्डभाजन अश्वावूनान शम्याक श्यामाक श्यापर्ण एते गोपवनाद्यः। प्राग्यरितशब्दात् परत उम्भवति । हरिताः। किंदासाः। तोल्बलिप्रभृतयोऽत्र पठ्यन्त इति केचित् । तौल्वलयः अनन्तरेण उप्राप्तः॥
वोपकादिभ्यः ।। १३६ ।। उपक इत्येवमादिभ्य उत्तरस्य हडत्यस्य वा ब-षभवति । उपकस्यापत्यानि उपकाः। उपकायनाः । लमकाः । लामकायनाः। एतौ नडादी। भ्रष्टकाः।भ्रायकथः। कपिष्ठलाः। कापिष्ठलयः। कृष्णाजिनाः । काष्णाजिनयः । कृष्णसुन्दराः। कार्णसुन्दरयः । वेति व्यवस्थितविभाषा। तेनैषामद्वन्छे विकल्पः । परिशिष्टानां इन्द्वे चाहन्छे च । सुपिष्ट मयूरकर्ण कर्णक पर्णक पिङ्गलक जटिलक बधिरक एतेषांशिवादिषु पाठः । अनुलोमप्रतिलोम एता पाहादी।।
-