________________
जैनेन्द्रव्याकरणम् |
२०६
अध्यजीगपत् । अन्यत्र अध्यापिपत् । माङ्योगे मा भवानध्यपिपदिति भवति । णौ कच्युङ इति प्रादेशे कृते faत्वं कथं ज्ञायते श्रणतेः ऋदित्करणं ज्ञापकं यदि द्वित्वं प्रागेव स्यात् ओण उकारस्यानुद्भतत्वात् प्रादेशप्रेतिषेधार्थं ऋदित्करणमनर्थकं स्यात् ।
अस्ति ब्रूञोर्भूवची ॥ १२४ ॥
अस्मिन जित्येतयोर्यथासंख्यं भू वचि इत्येतावादेश भवतः । भविता । भवितुम् । भवितव्यम् । अस्तीति तिपा निर्देशः किमर्थः यस्य केवलस्य अस्तीति रूपं तस्य यथा स्यात् अनुप्रयोगस्य लिड्वरस्य मा भूत् । ईहामास । ब्रूञ् । वक्ता । वक्तुम् । वक्तव्यम् । वचेरिकार उच्चारणार्थः स्थानिवद्भावादः । ऊचे ।
चक्षः खशाञ् ॥ १२५ ॥
चक्षः ख्शा ञित्ययमादेशो भवति अगे । आख्शाता । चाख्याता । ख्शो यो वा इति वा यकारादेशः । पर्याख्यानमित्यत्र यकारादेशस्यासिडत्वात् शकारेण व्यवहितत्वात् कृत्पच इति एत्वं न भवति । स्थानिवद्भावेन अनुदात्तेतो द इति नित्यं दो मा भूत् इति ञिक्रियते ।
न वर्जने ॥ १२६ ॥
वर्जनेऽर्थे चक्षः शात्रादेशो न भवति । गां संचक्ष्व । वर्जयित्वेत्यर्थः । कण्टकाः संचक्ष्याः । नेति योगविभागादसि युचि च प्रतिषेधः । मृचक्षाः राक्षसः । विचक्षणः । वा लिटि ॥ १२१ ॥