________________
-
महात्तिसहितम् ।
निरेकाजनाङ ॥ २२ ॥ निसंज्ञ एकाजनाङ् दिसंज्ञो भवति ॥ अ अपेहि । इ इन्द्रं पश्य । उ अपसर । निरिति किम् । चकारात्र । अन्वयव्यतिरेकाभ्यां प्रकृतेस्त्यस्य च विभागः । अपायिना ह्यनबन्धलिङ्गेन निरनुबन्धलिङ्गेन निरनबन्धादकाराद्भिद्यते णल् । एकश्चासावञ्च एकाजिति किम । प्रानाति । अनाडिति किम् । आ उदकान्तात् । ओदकान्तात् । जित्करणं किम् । एवर्थेष ङिदयं वर्तते तत्र प्रतिषेधो यथा स्यादन्यत्र दिसंज्ञैव भवति।
ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं तिं विद्याद्वाक्यमरणयोरङित् ।।
यथाक्रमम् । प्रा उष्णं आष्णम् । श्रा इहि एहि । आ उदकान्तात् ओदकान्तात् । आ अर्भकेभ्यः आर्भ केभ्यः । आर्भकेभ्यो यशः प्रतोतम् । वाक्यपूरणे स्मरणे चार्थे ङित्वाभावादिसंज्ञा । प्रा एवं नु मन्यसे । आ एवं किल तत् ॥
अत् ॥ २३ ॥१) अनेकाजर्थ आरम्भः । ओदन्तो निर्दिसंज्ञो भवति। अहो इति । उताहो इति । अत्र ओदिति प्रधानं वचनात्तु प्रधानेनापि तदन्तविधिः। तेनेह लाक्षषिकत्वान्न भवति । अदो ऽभवत्। तिरो ऽभवत् । अनुपदेशे ऽदस्तिरोन्तर्द्धविति निसंज्ञा इह तु गौणत्वान्न भवति । अगागाः सम्पन्नो गोऽभवत् । स्विधिडाजूऽयादिरिति निसंज्ञा। गौणत्वा
(१) आदर्शपुस्तके २३, २४ सूत्रयस्य विलुप्तत्वात्तदयानुसन्धानेनानुमितम् ।