________________
HDMEROEstaterinar
s lamandaland
जैनेन्द्रव्याकरणम् ।
ईदूदेद् द्विर्दिः ॥ २० ॥ ईत् ऊत् एत् इत्येवमन्तो यो द्विः स दिसंज्ञो भवति । अग्नी इति। वायू इति । खट्टे इत्ति । तदित्यनेन देरद्वेश्चैकादेशा द्विग्रहणेन गृह्यत इतीदाद्यन्तश्च भवति व्यपदेशिवद्भावेन । मुख्यरूपेणायं द्विरेकारान्तः पचेते इति। पचेथे इति । सत्यां दिसंज्ञायां प्रकृत्याऽचि दिपा इति प्रकृतिभावः। ईदृदेदिति किम् । वृक्षावत्र ।तपरकरणमसन्देहार्थम् । मणीवादिषु नेष्यते । मणीव । दम्पतोव । रोदसीव शोभेते। संज्ञाविधी त्यग्रहणे तदन्तविधिर्नास्तीति अशुक्ले शुक्ले सम्पन्ने शुक्लयास्तां वस्त्रे इति त्यखे त्यायन्यायेन दिसंज्ञा न भवति॥
दः॥ २१ ॥ एदिति निवृत्तम् । दकारस्य स्थाने यो मकारस्तस्मात्परावीदूतो दिसंज्ञौ भवतः । अमी आसते। अमी अत्र । अमू प्रासाते । श्रमू अत्र। बहावीरेत इति मत्वमीत्वं च । दादुर्दो मो ऽदसो ऽसेरिति मत्वम् । द्विमानस्य श्रीकारस्य द्विमात्र ऊकारःआश्रयात्मकारादीनां सिडिः। द इति किम् । सम्यत्र । दाडिम्यत्र । म इति किम् । द इति तानिर्देशपक्षे ते ऽत्रेत्यत्र दकारादेशस्य परेणादेपि कृते स्थानिवद्भावात्तद्वावाच दिसंज्ञा प्रसज्येत । कानिर्देशपक्षे चतुःपद्यर्थ इत्यत्र स्यात् । ईदित्येव । इमेऽत्र । एकयोगनिर्दिानामेकदेशो ऽनुवर्तते निवर्तते चैकदेश इति । एग्रहणं निवृत्तमिति । अन्यथा अमुके ऽत्रेत्यत्रानुवनिसामर्थ्यादुकारककाराभ्यां व्यवधाने ऽपि वचनप्रामाप्यादिसंज्ञा प्रसज्येत ॥
a
s an
admimdibiaudaimalabaalutation
amananesawaimermireovemaramanumaunwwwmomameenawar
-
-
-