________________
जैनेन्द्रव्याकरणम् |
१७
वाहीके गोशब्दस्य कथमैवादिकार्यमिति चेत् ! सामान्येन संस्तुतस्य पदस्य प्रयोगाद देोषः ॥ को वेतैा ॥ २४ ॥
fafafer य ओकारस्तदन्त इतौ परतो वा दिसंज्ञो भवति । पटो इति । पटविति । साधा इति । साधविति । काविति किम् । गवित्ययमाह । गौरिति वक्तव्यमशक्त्या गो इत्युक्तमनुक्रियत अनेकान्ताश्रयणात् । अनुकार्यानुकरणयेारभेदविवक्षायामसत्यर्थवत्वे विभक्त यनुत्पाद: । इताविति किम् । पटो ऽत्र ॥
उञ् ॥ २५ ॥ (')
उञित्येतस्य वा दिसंज्ञा भवतीतौ परतः । इति । विति । निरेकाजनाङिति नित्यं दिसंज्ञा प्राप्ता । सानुबन्धक निर्देशः किमर्थः । अहो इति । उताहो इति । निसातपक्षे निरनुबन्धस्यास्य मा भूत् ॥
उञः ऊम् ॥ २६ ॥
उञः ऊमित्ययमादेशो भवतीतौ परतः । इति द्विमात्रो नासिक्यो दिसंज्ञकश्च ऊं इति यद्यपठितोऽपि निसंज्ञको ऽस्ति तस्येतावे व प्रयोगो यथा स्यादित्यारम्भः ॥ दाधाभ्वपित् ॥ २१ ॥
दा धा इत्येवं रूपा धवा भुसंज्ञका भवन्ति पितौ वर्जयित्वा । दारूपाश्चत्वारः । प्रणिददाति । दाय् । प्रणिदाता । प्रणिदयते । प्रणिद्यति । धारूपौ द्वौ । प्रणिदधाति ।
( १ ) आदर्शपुस्तके २५ । २६ इति सूत्रद्वयं बिलुप्ताक्षर तदनुसन्धानेन कल्पितमादशांन्तरसंवादेन परिशोधनीयम् ॥