________________
-
-
१६०
महावृत्तिसहितम् । इतिकिम । शलाकां व्यवहरति । गणयतोत्यर्थः । देवान पणयति।शेष इत्येव । शतं व्यवहरति । सहस्रपणयते ॥
दिवश्च ॥ ६॥ ___ व्यवहृपणेःसामर्थ्य इति वर्तते। दिवश्व व्यवहृपणिसमानार्थस्य कर्मणि ता भवति। शतस्य दीव्यति।सहस्रस्य दीव्यति । चकारः किमर्थः सामयानुकर्षणार्थीननु विकारादेव सामर्थ्य ग्रहणमनुवर्तते ऽन्यथा चानुकृष्टमुत्तरत्र च वानुवर्तते वागावित्यत्र सामानुत्तिर्न स्यात अनुक्तसमुच्चयार्थस्तर्हि कचिदन्यस्यापि प्रयोगे यथा स्यात् सक्तूनां पूर्णः । ओदनस्य तृप्तः सामर्थ्य इत्येव । साधून दीव्यति॥
वा गा ॥ ६६ ॥ सामर्थ्य इति वर्तते । गिपूर्वस्य दिवः कर्मणि वा ता विभक्ती भवति । शतस्य प्रदीव्यति । सहस्रस्य प्रतिव्यति । सहस्रं प्रदीव्यति । इयं पूर्वेण प्राप्त विभाषा । ननु शेषविवक्षया तापि भविष्यति इति व्यर्थमिदम् । एवं तर्हि इदमेव ज्ञापकं अगिपूर्वस्य शेषविवक्षा नास्ति इति । शतस्य दीव्यति । सामर्थ्य इत्येव । शलाका प्रतिदीव्यति ॥
कालेऽधिकरणे सुजथै ॥६७ ॥ काले ऽधिकरणे ता विभक्ती भवति सुजथै त्ये प्रयुक्त। द्विरन्होऽधीते। त्रिरन्होधीते। पञ्चधारान् भुङ्क्ते । संख्या या ध्वभ्यावृत्ती कृत्वमिति कृत्वम् । द्वित्रिचतुर्व्यःमुजिति सूच। काल इति किम् । द्विःकांसपात्र्यांभुंक्त अधिकरण इति किम्। हिरन्हो भुक्तो मुजर्थ इति किम्। अहनि भुक्त।रात्री भुक्ते । न त्वत्रापिद्धिः त्रिर्वेति सुजों गम्यते। प्रयुक्तग्रहणं
-