________________
-
-
जैनेन्द्रव्याकरणम् । दुरादनुवर्तते तेन गम्यमाने सुजथै न भवति। शेष इत्येव। द्विरहयधीते॥
कर्तृकर्मणोः कृति ॥ ६॥ कृति प्रयुक्त कर्तरि कर्मणि च ता विभक्ती भवति। अनुक्त इति वर्तते । भवत आसिका। भवतः शायिका। खोलिने भावे पायाहोत्पत्ती बुणिति वुण । यवानां लावकः । ओदनस्य भोजकः। विश्वस्य ज्ञाता। तीर्थस्यकर्ता। कृतीति किम् । ओदनं पचति । ननु नझितेत्यादिनाऽत्र प्रतिषेधो भविष्यति एवं तर्हि हृति मा भूत् । कृतपूर्वी कटम् । कृतं पूर्वमनेन इन् पूर्वात् सपूर्वादितीन् । पुनः कर्मग्रहणादिह शेषस्य ग्रहणं नाभिसम्बध्यते ॥
द्विप्राप्तौ परे ॥ ६ ॥ पूर्वमन्त्रविन्यासापेक्षया परशब्देन कर्माभिप्रेतम् । द्विमाप्तौ कृति पर एव कर्मणि ता विभक्ती भवति न कर्तरि। आश्चर्यो गवांदोहोऽगोपालकेन । रोचते मे ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं जिनदत्तेन । द्वयोः प्राप्तियस्मिन् कृतीति व्यधिकरणस्य वसस्याश्रयणाद् भिन्ने कृति नियमो न भवति। आश्चर्यमिदमतिथीनां प्रादुर्भावः ओदनस्य च नाम पाकः। अकाकारयोः प्रयोगे नेति वक्तव्यम् । भेदिका देवदत्तस्य काष्ठानाम् । चिकीर्षा जिनदत्तस्य काव्यानाम् । अकारग्रहणेन निरनुबन्धकस्य अस्त्यादित्यस्यैव ग्रहणम् । शेषे विभाषा। अकाकारापेक्षया शेषस्य बीत्यस्य ग्रहणम् । विचित्रा सूत्रस्य कृतिराचार्यस्प
-
Q3