________________
smusal
me
-
१८८
महावृत्तिसहितम् । मातरं स्मरति। यद्येवं नार्थोऽनेन ता शेष इत्येव सिद्धम् । लादेसेनझेति प्रतिषेधोऽपि कर्तृकर्मणोः कृतीत्येतस्याः प्राप्तेरनन्तरत्वात् नापि प्रतिपदमिति सविधिप्रतिषेधार्थ नेयं प्रतिपदविधाना ता वृत्तिरपि दृश्यते अर्थानुस्मरणं धर्मानुचिन्तनम् । एवं तहि कर्मणः शेषत्वेन विवक्षितत्वादकर्मकत्वोपपत्ते व्यक्तखार्थाः भावे सिद्धा भवन्ति । मातुः स्मर्यते ।मातुःस्मर्तव्यम् । सकर्मकविवक्षायां कर्मणि भवन्ति । माता स्मयते । माता स्मर्तव्या ॥
प्रतियत्वे कृजः॥६॥ करोतेः कर्मणि ताविभक्ती भवति प्रतियत्ने गम्यमाने । असतोऽर्थस्य प्रादुर्भावाय सतो गुणान्तराधानाय समीहा प्रतियत्नः। एधो दकस्योपस्कुरुते। काण्डं गुणस्योपस्कुरुते । गन्धनावक्षेपादिना दः । प्रतियत्न इति किम् । कटं करोति। बुड्या शेष इत्येव एधो दकमुपस्कुरुते ॥ रुजर्थस्य भाववाचिनो ऽज्वरिसन्तापाः॥६॥
रुजनां धूनां भावकर्तृकाणां कर्मणि ता विभक्ती भवति ज्वरिसन्तापी वर्जयित्वा । चोरस्य रुजति रोगः । रुजस्येति किम् । एतिजीवेतिमानदः।गत्यायो?भाववाचिन इति किम्। श्लेष्मा मधुराशिनं रुजति । अज्वरिसतापोरिति किम् । आयनं ज्वरयति ज्वरः। घटादित्वात् प्रादेशः। अत्याशिनं सन्तापयति ज्वरः । शेष इत्येव । चारं रुजति॥
आशिषि नाथः ॥ ६२ ॥ प्राशी क्रियस्य नाथः कर्मणि ता विभक्ती भवति। सर्पिषो नाथते । पयसो नाथते । सपिम भूयात इत्यर्थः ।
a indernamanna
utamMANOODom
-