________________
जैनेन्द्रव्याकरणम् ।
एकः कि ॥ ५६ ॥ बोध्यसंज्ञायां वाया एकवचनं किसंज्ञं भवति । हे कन्ये । हे वटो । किप्रदेशाः केरेडा इत्येवमादयः॥
ता शेषे ॥ ७ ॥ कर्मादिकारकाणां अविवक्षा कर्मादिभ्योऽन्यो वा मृदातिरेकः स्वस्वामिसंबन्धादिः शेषः। ता विभक्ती भवति शेषे अर्थविशेषे। नटस्य शृणोति। ग्रन्थिकस्य शृणाति। स्वस्वामिसम्बन्धसमीपसमूहविकारावयवस्थानादयस्तार्थाः राज्ञः स्वम् । मद्राणांराजा। देवदत्तस्य समीपम्। यवानां राशिः । यवानां धानाः । देवदत्तस्य हस्तः । गोः स्थानम् । शेषग्रहणं किम् । इवादयो नियताः कर्मादयस्त्वनियतास्तेभ्यस्ता मा भूत् ॥
ज्ञोस्वाथैकरणे ॥ ५८ ॥ स्वार्थोऽवबोधनं तत्पर्युदस्यतो जानातेरस्वार्थे वर्तमानस्य करणे ताविभक्ती भवति । सपिषो जानीते । पयसो जानीते । सर्पिषा करणभूतेन अवेक्षते प्रवर्तते वा इत्यर्थः । ज्ञोपहवेधेरिति दविधिः करणस्य शेषत्वविवक्षायामविवक्षायां च तैव भवति । अस्वार्थ इति किम् । स्वरेण पुत्रं जानाति ॥
स्म्रर्थदयेशां कर्मणि ॥ ५ ॥ शेष इति वर्तते स्मृ इत्यनेन समानार्थानां धूनां दय ईश इत्येतयोश्च कर्मणि शेषत्वेन विवक्षिते ता विभक्ती भवति । मातुःस्मरति।पितुरध्येति । सर्पिषो दयते। सर्पिष ईष्टे । कर्मणीति किम् । मातुर्गुणैः स्मरति । शेष इत्येव