________________
महावृत्तिसहितम् । मिडैकार्थत्वात् चानुकृपया ईपः कथमनुवृत्तिः ईवधिकारे सूत्रारम्भसामर्थ्यादत्राप्यधिकरणत्वादीप सिद्धा पक्ष भार्थ वचनं यद्यधिकरणस्यापि करणविवक्षा यथा स्थाल्या पचति तदेदं प्रपञ्चार्थम् ॥
मिडैकार्थे वा प्रथमा ॥ ५४ ॥ मिङन्तेन पदेन एकार्थे वर्तमानान्मृदो वा विभक्ती भवति । गौश्चरति । कुमारी तिष्ठति । ओदनः पच्यते । खारो मीयते । एकः द्वौ बहवः । इत्यत्रोक्तष्वप्येकत्वादिषु भा भवतीत्युक्तप्रायम् । च वा ह उच्चैरित्येवमादिषु अनर्थकेषु च प्रादिषु मिङन्तेनैकार्थ वाभावेऽपि सुपो झेरिति ज्ञापकाद्भवति । भावे वर्तमानेन मिङन्तेन स्वभावादन्येनैकार्थत्वं नास्ति । आस्यते देवदत्तेन नन्वेकत्वादिविशिष्टेषु कर्मादिषु कर्मादिविशिष्टेषु वा एकत्वादिषु इबादिनां नियमात् परिशेषात् वृक्षः प्लक्ष इत्येवमादिष वादिषु च ड्याम्मृद इत्यनेनैव वायाः सिद्धत्वादनर्थकमिदं नानर्थकम् । एकद्विबहुवचनानां व्यतिकरनिवृत्त्यर्थं वायास्तायाश्च विषयभेदार्थ चेदं विसर्जनीयो विभाषा सन्देहनिवृत्त्यर्थम् ॥
सम्बोधने बोध्यम् ॥ ५५ ॥ सम्बोधनमभिमुखीकरणं सम्बोधने या वा तस्या बोध्यमित्येषा संज्ञा । सम्बोधनेऽपि मिडैकार्थत्वमस्ति इति पूर्वेण वाविधानम् । हे देवदत्त आगच्छ । हे देवदत्तौ । हे देवदत्ताः । हे पचन् । हे पचमान । सम्बोधन इति शत्रशाना बोध्यसंज्ञाप्रयोजनम् । बोध्यमसद्वदित्येवमादि ।।
-
-