________________
जैनेन्द्रव्याकरणम् । १८५ साधुनिपुणेनाचार्यामीबप्रतेः ॥ ५१ ॥
साधु निपुण इत्येताभ्यां युक्त अर्चायां गम्यमानायामीविभक्तो भवति प्रतिशब्दस्याप्रयोगे। मातरिसाधुः । मातरि निपुणः । पितरि निपुणः। तापवादोऽयम् । अर्चायामिति किम् । साधुनिपुणो वाऽमात्यो राज्ञः। अप्रतेरिति किम् । साधुर्देवदत्तो मातरं प्रति प्रतिग्रहणमगितिसंज्ञानामभिपय॑तानामुपलक्षणम् । मातरमभि । मातरं परि। मातरमनु । कथमसाधुः पितरि। अनिपुणे मातरि। पूजाप्रयुक्तसाधुनिपुणप्रतिषेधोऽयम् ।
प्रसितोत्सुकाभ्यां भा च ॥ ५२ ॥ प्रसित उत्सुक इत्येताभ्यां युक्त भाविभक्तो भवति । ईप च । केशैः प्रसितः । केशेषु प्रसितः । प्रसक्त इत्यर्थः । केशैउत्सुकः केशेषत्सुकः । पक्ष भार्थमिदम् । ईवधिकरणत्वादेव सिद्धः॥
उसि भे ॥ ५३ ॥ ईवनुवर्तते भा च । उस्विषये भवाचिनि भेपी विभतयौ भवतः। भाधुक्तः काल इत्यागतस्याणः उसभेद इत्युसि कृते यदा भवाचोशब्दः काले वर्तते तदा तस्माद्भा च ईप च भवत इत्यर्थः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् ।मघाभिः पललादनम् । मघासु पललौदनम् । उसीति किम् । मघासु ग्रहः नात्र मघाशब्दः काले वर्तते। भ इति किम् । पञ्चालेषु वसति । पञ्चालस्थापत्यानि पच्चालाः तेषां निवासः पञ्चालः। निवासार्थे आगतस्याण: जनपद उसित्युस । इह कस्मान्न भवति । अद्य पुष्यः ।
-