________________
महात्तिसहितम् । कुशलायुक्तेन चासेवायाम् ॥ ४ ॥
आसेवा मुहुर्मुहुः सेवा तात्पर्य च । कुशल आयुक्त इत्येताभ्यां युक्त आसेवायां गम्यमानायां तेपी विभत्तया भवतः। कुशला विद्याग्रहणस्य कुशला विद्याग्रहण आयुक्तस्तपश्चरणस्य आयुक्तस्तपश्चरणे । आसेवायामिति किम् । आयुक्तो गौः शकटे । आकृष्य युक्त इत्यर्थः । अधिकरणलक्षणेयमीप् ॥
__ यतश्च निद्धारणम् ॥ ४ ॥
जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निरिणम् । यतश्च निर्झरणं ततस्तेपी विभत्या भवतः। मनुष्याणां क्षत्रियः शरतमः। मनुष्येषु क्षत्रियः शूरतमः। नारीणां श्यामा दर्शनीयतमा । नारीषु श्यामा दर्शनीयतमा। अध्वगानां धावन्तःशीघ्रतमाः। अध्वगेषु धावन्तः शीघ्रतमाः । प्रपञ्चार्थमिदं समुदाये अवयवाऽन्तर्भूतः । अधिकरणविवक्षायामीप सिडा अवयवसम्बन्धविवक्षायां तापि सिडा अतएवापादाने कापि भवति । गोभ्यः कृष्णा नि यते इति ॥
विभक्त का ॥ ५० ॥ यतश्च निर्धारणमिति वर्तते भिन्नजातीयात् समुदायाद्गणादिना पृथकरणं विभक्तनिर्धारणं तत्र का विभक्ती भवति। पूर्वेण तेपोः प्राप्तयोरयमपवादः। माथुराः पाटलिपुत्रकेभ्य आढयतराः। दर्शनीयतराः। अयमस्मादधिकः अयमस्माद्विलक्षणः । इदमपि प्रपनार्थम् । पाटलिपुत्रकाणामवधिभावेन बुद्धि प्राप्तानामपादानत्वमस्ति ।।