________________
जैनेन्द्रव्याकरणम् । १८३ गतिर्भवति तत्र इब्भवति । गोसु दुह्यमानासु गतः। दुग्धा स्वागतः। अत्र प्रसिडेन गोदोहनभावेन गमनक्रिया लक्ष्यते। एवं देवार्चनायां क्रियमाणायां गतः कृतायामागतः। इह बदरमानेष्वानेषु गतः पक्केष्वागतः। सामर्थ्याजातेष्विति प्रतीयते । यद्भावादिति किम् । यो जटाभिः स मुझे जटाद्रव्यम् । पुनर्भावग्रहणं किम् । यो भुक्तवान् स देवदत्तः॥
ता चानादरे ॥ ४६ ॥ अनादरो ऽवज्ञा । यद्भावाद् भावान्तरगतिर्भवति तत्र ताविभक्ती भवति ईप चानादरे गम्यमाने । देवदत्तस्य क्रोशतः प्राबाजीत् । देवदत्ते कोशति प्राब्राजीत् । रुदतः प्रावाजीत् । रुदात प्राब्राजीत् । अत्राव ज्ञानेन क्रोशनेन प्रव्रजनभावो लक्ष्यते ॥ स्वामोश्वराधिपतिदायादसाक्षिप्रति.
भूप्रसूतैश्च ॥ ४७ ॥ स्वामिन् ईश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्युक्ततेपी विभक्त्या भवतः । गवां स्वामी। गोषु स्वामी । गवामीश्वरः। गोष्वीश्वरः। गवामधिपतिः । गोष्वधिपतिः । दायमादत्त दायादः। प्र इतिनियमादन्यस्मिन् गावप्राप्ते के अत एव निपातनात् कः । गवां दायादः। गवां साक्षी । गोषु साक्षी। गवां प्रतिभूः। गोष प्रतिभूः गवां प्रसूतः। गोषु प्रसूतः चकारः किमर्थः । तेपोरनुवर्तनार्थः । अन्यथा पूर्वत्र चानुकृष्टाया ईपोऽनुत्तिर्न स्यात् । उत्तरसूत्रयोरपि चकारस्येदमेव फलम् । प्रसूतयोगे ईबेव प्राप्ता इतरैोगे ता प्राप्ता ॥
-
ma