________________
१८२
महावृत्तिसहितम् । तेभ्यो दूरान्तिकार्थेभ्य इधिभक्ती भवति का च । दूर ग्रामस्य । दाद् ग्रामस्य । विप्रकृष्टं ग्रामस्य । विप्रकृष्ाद् ग्रामस्य । अन्तिकं ग्रामस्य । अन्तिकाद् ग्रामस्य । समीप ग्रामस्य। समीपाद ग्रामस्य । कानुवर्तनादेव सिडा। चकारो ऽनुक्तसमुच्चयार्थः । तेन भापि भवति । दूरेण ग्रामस्य । अन्तिकेन ग्रामस्य । असत्ववचनेम्य इति वक्तव्यम् । इह मा भूत्। दुरात् पथ आगतः। दूरस्य पथः शंवलम् । अन्तिका ग्रामाः। यद्यसत्ववचनेभ्य इत्युच्यते इब्विधानमनर्थकम् । लिङ्गमशिष्यं लोकाश्रयत्वात् । नपुंसके सारम्भावेन सिद्धम् । इदं प्रयोजन सपूर्वाया वाया इत्येष विकल्पोमा मूत् । ग्रामो दूरं त्वा पश्यति । ग्रामो दूरं मा पश्यति॥
ईवधिकरणे च ॥ ४४ ॥ ईद्विभक्ती भवति अधिकरणे कारके दूरान्तिकार्थभ्यश्च । कटे आस्ते । शयने शेते। दूरान्तिकार्थेभ्यः। दृरे ग्रामस्य । विप्रकृष्टं ग्रामस्य । अन्तिके ग्रामस्य । समीपे ग्रामस्य । क्तस्येविषयस्य कर्मणीब वक्तव्या ॥ अधीति व्याकरणे । अधीतमनेन व्याकरणमित्यस्मिन्नर्थे इादेरितीन् । एवमानाती छन्दसि । परिगणितो ज्योतिषि । निमित्तात् कर्मसंयोगे इब वक्तव्या। चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः। नेदं बहु वक्तव्यम् । ईबिति योगविभागात् सिद्धम् ॥
यद्रावाद्वावगतिः ॥ ४५ ॥ भावः क्रिया। ईविति वर्तते। यस्य भावाभावान्तर