________________
जैनेन्द्रव्याकरणम् ।
१८१
वसति । दक्षिणोत्तरावरादादित्यधिकृत्य । वैनेोदूरेकाया इति अस्तादर्थे एन इत्ययं त्यः । पूर्वसूत्रे नेति योगविभागादनेन योगे तापि भवति इति केचित् । दक्षिणेन ग्रामस्य । उतरेण ग्रामस्य ॥
पृथग्विनानानाभिभी वा ॥ ४१ ॥
पृथग्विना नाना इत्येतैर्युक्ते वा भाविभक्ती भवति । पृथग्देवदत्तेन पृथग्देवदत्तात् । विना देवदत्तेन । विना देवदत्तात् । नाना देवदत्तेन । नाना देवदशात् । पक्षे अन्यार्थत्वात् कापि भवति । अथ पृथगादयोऽसहायार्थे वर्तन्ते नान्यार्थे । एवं तर्ह्यधिकारात् का एटव्या । त्रयाणां ग्रहणं पर्यायनिवृत्त्यर्थम् । हिरुग्देवदत्तस्य । करणे स्तोकाल्पकृछ्रकतिपयेभ्योऽसत्ववचनेभ्यो भाके वक्तव्ये । स्तोकेन मुक्तः । स्तोकान्मुक्तः । अल्पेन मुक्तः । अल्पान मुक्तः । कृछ्रेण मुक्तः । कृछ्रान्मुक्तः । कतिपयेन मुक्तः । कतिपयान्मुक्तः । असत्ववचनेभ्य इति किम् । स्तोकेन विषेण हतः । नेदम् वक्तव्यम् । विवक्षातः कारकाणि भवन्ति इत्युभयं सिडम् | क्रियाविशेषणविवक्षायां भाकेन भवतः । स्नाकं चलति । अल्पं जल्पति ॥
दूरान्तिकार्थैस्ता च ॥ ४२ ॥
1
केति वर्तते । दूराथैरन्तिकार्थैश्च ग्रामस्य युक्ते ताविभक्ती भवति का च । दूरं ग्रामस्य । दूरं ग्रामात् । विप्रकृष्ट ग्रामस्य । विप्रकृष्टेन ग्रामात् । अन्तिकं ग्रामस्य । अन्तिकं ग्रामात् । अभ्यासं ग्रामस्य । अभ्यासं ग्रामात् ॥ तेभ्य इप् च ॥ ४३ ॥