________________
जैनेन्द्रव्याकरणम् |
१७७
पुत्रेण सह धनवान् । अत्र प्रधानाप्रधानयोः क्रियागुणद्रव्यसम्बन्धे सति सहयोगः । अर्थग्रहणं किम् । पुत्रेण सार्द्धमागतः । पुत्रेण समम् । पुत्रेण साकम् । पुत्रेणामा । तस्य द्रोणस्य संग्रामः सारणेन गदेन च । युगपत् को पकामाभ्यां मनीषिण इवाभवत् । विनाऽपि सहशब्देन तदर्थसंप्रत्ययमात्रे च भवति । अन्त्येनेताऽदिः । अत्येन सह आदिरित्यर्थः । योग इत्येव । शिष्येण सहोपाध्यायस्य गौः । पुत्रेण सह स्थूला ग्रामे । उपाध्यायशब्दस्य ग्रामशव्दस्य च नास्ति सहशब्देन योगः ॥
येनाङ्गिविकारेत्यम्भावा ॥ ३१ ॥
अङ्गिविकारः शरीर विकृतत्वम् । अनेन प्रकारेण भवनमित्थंभावः । कचिदेव छात्रादौ प्रकारे वृत्तिरित्यर्थः । येनाङ्गिनेो विकार इत्वम्भावश्च लक्ष्यते ततो भावि भक्ती भवति । चक्षणा काणः । पाणिना कुणिः । पादेन खञ्जः । इत्थम्भावेऽपि भवान् कमण्डलुना छात्रमद्राक्षीत् । चूलया परिव्राजकमद्राक्षीत् । सहार्थेनेत्यस्याविवक्षायामिदं द्रष्टव्यम् । अङ्गिविकारेत्थम्भावाविति किम् । अचि काणमस्य । वृक्षं प्रति विद्योतते ॥
हेतैा ॥ ३२ ॥
तावित्यर्थनिर्देशः । तावर्थे भा च भवति तद्वाचिनः । अन्नेन वसति । धनेन कुलम् । विद्यया यशः । इह लौकिकफलसाधनयोग्यः पदार्थों हेतुर्गृह्यते । तद्योजक हेतुरित्यस्य पारिभाषिकस्य प्रयोगे सिद्धैव भा । उत्तरसूत्रे त्वविशेषेण हेतोर्ग्रहणं द्रष्टव्यम् ॥