________________
।
१७६
महावृत्तिसहितम् । तृणं मन्ये । अजीव इति किम्।न त्वां श्वानं मन्ये । न त्वां शृगालं मन्ये । अगहवाचित्वाद् युष्मदस्मदादेरविभक्ती न भवति ॥
संज्ञो भा ॥ २८॥ कर्मणीति वर्तते । संपूर्वस्य जानातेः कर्मणि भा भवति । मात्रा संजानीते । मातरं संजानीते । पित्रा संजानीते । पितरं संजानीते। संप्रतेरस्मृताविति दः। वेति व्यवस्थितविभाषाऽनुवर्तते । तेम दविषये भाविकल्पः । स्मृत्यों मविधिः । तत्र मातुः संजानाति । मातरं संजानाति । स्म्रर्थदयेशाङ्कर्मणीत्यत्र ताविकल्पं वक्ष्यति।कृत्प्रयोगे परत्वात् कर्तृकर्मणोः कृतोति तैव भवति मातु: संज्ञाता ।।
कर्तृकरणे भा ॥ २६ ॥ कर्तरि करणे च कारके भाविभत्ती भवति । देवदत्तेन भुक्तम् । जिनदत्तेन भुक्तम् । करणे। दात्रेण लुनाति । भेति वर्तमाने पुनर्भाग्रहणं किम् । प्रकृत्यादिभ्यो यथा स्यात्। प्रकृत्या ऽभिरूपः । प्रकृत्या दर्शनीयः। प्रायेण वैयाकरणः। काश्यपोऽस्ति गोत्रेण । समेण धावति। | विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून क्रीणाति । सहस्रेण अश्वान् क्रीणाति ॥
सहार्थेन ॥ ३० ॥ योग इति मण्डूकप्लुत्याऽनुवर्तते । सहशब्दार्थन योगे भाविभक्ती भवति । प्रधानस्य मृदातिरेकाभावादप्रधाने भवति । पुत्रेण सहागतः। पुत्रेण सह पिङ्गलः।
-