________________
महात्तिसहितम् ।
कर्णे कर्तरि ॥ ३३ ॥ हेताविति वर्तते । कर्तृवर्जित ऋणे हेतौ काविभक्ती भवति । भापवादोऽयम् । शताबद्धः। सहस्राद्धः । उत्तमोऽत्र कर्ता । अकर्तरीति किम् । बहस्त्वया देवदत्तः । नाऽहं बध्नामि । शतं मे धारयति । शतेन बद्धः। बन्धितस्त्वया देवदत्तः। नाऽहं बन्धयामि। शतेन बन्धितः। कथं देवदत्तेन शतेन बन्धितः। एकस्य हेतुकर्तृत्वमपरस्य प्रयोज्यकर्तृत्वमित्यदोषः। कति योगविभागः । तेन हेतो काऽपि भवति । कृतकत्वादनित्यः । अनुपलब्धेर्नास्तीति ॥
गुणे श्रीदत्तस्याऽस्त्रियाम् ॥ ३४ ॥ हेताविति वर्तते । अस्त्रीलिङ्गे गुणे हेता श्रीदत्तस्याचार्यस्य मतेन काविभक्ती भवति । अन्येषां मतेन हेताविति भा। जाड्यावद्धः । जाड्येन बडः । परिख्यात्यान्मुक्तः। पारिख्यात्येन मुक्तः । गुण इति किम् । धनेन कुलम् । अस्त्रियामिति किम् । बुड्या मुक्तः॥
ता हेता ॥ ३५ ॥ हेताविति शब्दनिर्देशोऽयं हेत्वर्थस्य तु प्रकृतत्वात् । हेतुशब्द प्रयुक्त हेत्वर्था ता भवति । अन्नस्य हेतोर्वसति । अध्ययनस्य हेतोर्वसति । भिक्षाया हेतोर्वसति । हेतुशब्दाऽपि हेत्वर्थे वर्तते । तस्मादपि ता । सामानाधिकरण्याद्वा॥
सर्वनानो भा च ॥ ३६ ॥ हेतुशब्द प्रयुक्त सर्वनानो भाविभक्ती ता च । केन हेतुना वसति । कस्य हेतोसति । येन हेतुना वसति । यस्य हेतावसति । पूर्वेण तायामेव प्राप्तायामयमारम्भः।