________________
जैनेन्द्रव्याकरणम् |
१७१
हेतावर्थे अनुना योगे इन्विभक्तिर्भवति गितिसंज्ञाप्रतिषेधश्च । जिनस्य ज्ञानोत्पत्तिमन्यागमन्सुराः । सुराणामागमनस्य जिनज्ञानोत्पतिर्हेतुः । एवं शान्तिचरित पहरूप्रसारणमनु प्रावर्षत् पर्जन्यः । यदाऽपि इत्थम्भूते लक्षणे वार्थेऽनुना योगे स्विडैवेत् तथापि येननाप्राप्तन्यायेन शेषलक्षणायास्तायाः सोऽपवादः । हेत्वर्थे तु परत्वाद्भा प्रसज्येत तद्बाधनार्थमिदम् ॥
भार्थे ॥ १४ ॥
भार्थः सहशब्दार्थः । भार्थेऽनुना योगे इब् भवति गितिसंज्ञाप्रतिषेषश्च । नदीमनु वसिता सेना । नदीमनु वसिता after नगरी । नद्या सह सम्बद्धेत्यर्थः । एवं पर्वतमनु वसिता सेना ॥
हीने ॥ १५ ॥
अनुनेति वर्तते । होनार्थे योत्ये अनुना योगे इब् भवति गितिसंज्ञाप्रतिषेधश्च । उत्कृष्टापेक्षया होनेो भवतीति सामर्थ्यादुत्कृष्टादिप् । अनु शालिभद्रमाढ्याः । अनु समन्तभद्रं तार्किकाः ॥
उपेन ॥ १६ ॥
होनार्थे उपेन याने इब् भवति न गितिसंज्ञा च । उपसिंहनन्दिनं वयः । उप सिद्धसेनं वैयाकरणाः ॥
ईबधिके ॥ ११ ॥
fforभक्तो भवति अधिकार्थे द्योत्ये उपेन योगे । उप खायां द्रोणः । उप निष्के कार्षापणम् । यस्मादधिकं मृदार्थातिरेकान्तत ई ॥