________________
महावृत्तिसहितम् । मिति । कर्तरि करणे च भा न भवति । प्राप्तमुदकं चं ग्रामं स प्राप्तोदको ग्रामः । सेन कर्मोक्तम् । मिङ्कृत्सैरिति परिसंख्यानं किम् । कटं करोति भीष्ममुदारं दर्शनीयम् । अत्र कटशब्दादुत्पद्यमानया इपा उक्ते कर्मणि भीष्मादिभ्य इप् न स्यात् । तदेतत्परिगणनमयुक्तम् । कटोऽपि कर्म भीष्मादयोऽपि न ह्यसौ कटमात्र सन्तोषं करोतीत्यनेकं कर्म गृह्यते । समुदायस्य चामृत्वात् प्रत्यवयवाधिभत्तयुत्पत्तिः। इह श्रासने आस्ते शयने शेते इति श्रन्यो यधिकरणप्रत्ययः सामान्येन युटाभिहिता अन्यश्च विशेषरूपेण विभत्तयोच्यते इति न दोषः ॥
कर्मणीय ॥ २ ॥ कर्मणि कारके अनुक्ते इब विभक्तिर्भवति । कटं करोति। ग्रामं गच्छति । आदित्यं पश्यति । अविशेषेण अम्मृदः स्वाद्यो वक्ष्यन्ते। तन्नियमोऽयं कर्मादिष्वेव इवादयो भवन्ति । इवादयो नियताः । कर्मादयस्वनियताः । तेषु तापि प्राप्नोति । तत इदमुच्यते ता शेष इति शेषे ता भवति नोक्ते कांदा ॥
अन्तरान्तरेण योगे॥३॥ प्रतिपदोक्तत्वादिहान्तरान्तरेजशब्दो निसंझौ ताभ्यां योगे इब्बिभक्तिर्भवति । अन्तरा गन्धमादनं माल्यवन्तशान्तरा कुरवः । कुरुविशेषणत्वेन तायां प्राप्तायामन्छिघीयते । कुरुशब्दार्थे वर्तमानात् मृदातिरेकाभावात् इन्न भवति ।अन्तराशब्दो मध्यमाधेयप्रधानं ब्रते। अन्तरेपशब्दः तच्च विनार्थ च । अन्तरेण सौमनसं विद्यमभच्च